Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 59
________________ (२) मित्रनिष्ठा कस्मिंश्चिन्नगरे बिल: फ्रान्कश्चेति द्वौ प्रातिवेश्मिको सुहृदौ वसतः स्म । दैवादेको धनिको जातोऽन्यश्च निर्धनो जातः । ततो यज्जनेभ्यो धनं गृहीतं तत्तेभ्योऽहं कथं प्रत्यर्पयिष्यामि ? किं मे भविष्यति? इति चिन्तया व्याकुलः स निर्धनो मृतः ।। __ कियच्चित्कालानन्तरं स धनिको मृतस्य तस्य प्रातिवेश्मिकस्य गृहे गतवान् । तदा मित्रपत्नी पत्युराय-व्ययपुस्तकं पश्यन्त्यासीत् । आगच्छन्तं पतिमित्रं दृष्ट्वा सोवाच - आगच्छतु, आगच्छतु । अत्रोपविशतु । यावदहं चायपेयमानयामि तावद् भवान् भवदीयमित्रस्यैतानि वस्तूनि पश्यतु, यद् रोचते तद् गृह्णातु - इत्युक्तवती सा । धनिकोऽखिलवस्तूनि पश्यति स्म । तदा मित्रपत्नी चायपेयं गृहीत्वाऽऽगतवती । धनिको मित्रस्य फ्रान्कस्य आय-व्ययपुस्तकं गृहीतवानुक्तवाश्च – भगिनि ! भवत्याः कथनस्याऽनुरूपं मह्यमेतत् पुस्तकं रोचते, तत एतद् गृह्णामि । एतादृशं मित्रप्रेम दृष्ट्वा तस्या नयने आर्टे जाते । (३) जीवनम् एको विद्वान् सिद्धतपस्विनः समीपं गतवान् । तपस्विना पृष्टम् - किं मार्गयति भवान् ? विद्वान् उवाच – जीवनम् । तपस्वी प्राह – यदि भवता जीवनं सत्यतया जीवितव्यं तहि शब्दा विहातव्याः । विद्वान् कथितवान् – न ज्ञातं मया, भवता किमुक्तम् ? तपस्वी जगाद - भवान् शब्दजालेन रचिते विश्वे जीवति । भवता शब्दैरेव सन्तोषोऽनुभूयते, शब्देषु चैव रम्यते । भो ! जलस्य भोजनस्य च वार्तयोदरं न भ्रियते । वस्तुतो जीवनस्य कृते आचरणमावश्यकमस्ति ।

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86