Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 58
________________ कथा कथात्रयी - मुनिधर्मकीर्तिविजयः (१) अस्ति भगवान् ? एको नास्तिकः संन्यासिने कथितवान् – इह जगति भगवानस्ति, इति न मन्येऽहम् । यदि भवता भगवान् साक्षाद् दर्खेत तहि सोऽस्ति, इति स्वीकुर्याम् । भगवत्पूजायां निरतः स संन्यासी क्षणं स्मित्वा दुग्धभृतं चषकं दत्तवान् पृष्टवाश्च – कीदृशमस्ति दुग्धम् ? नास्तिक उवाच - मधुरम् । संन्यासिना पृष्टम् – कथं मधुरमस्ति ? नास्तिक आह - शर्करामिश्रितं दुग्धमस्ति, इत्यतः । संन्यासी उक्तवान् – यदि भवान् दुग्धात् शर्करां पृथक् कुर्यात् तर्हि भगवानस्ति, इति स्वीक्रियते मया । नास्तिकः कथितवान् – कथमेतच्छक्यम् ! एतत्त्वनुभवेनैव ज्ञायते । संन्यासिना व्याकृतम् - अहमप्येतदेव वच्मि । भगवान् तु सर्वत्राऽस्ति । तथाऽपि स न दृश्यते, किन्त्वनुभूयते । तथाऽपि यथा प्रयोगशालायां दुग्धं शर्करा च भिन्नीकर्तुं शक्ये तथैव यदि जीवने साधना क्रियते तदा भगवतः साक्षात्कारो भवति । अतो न दृश्यते ततो नास्ति, इति कथनं नोचितम् । ५८

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86