Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 56
________________ विनोदकथा रुग्णोऽहं जातः मुनिकल्याणकीर्तिविजयः प्रतिदिनमिव तद्दिनेऽप्यहं त्रिवादने पुस्तकालयं गतः । विविधपुस्तकानामवलोकने ममाऽभिरुचिर्वर्ततेऽतः प्रत्यहमन्यान्यपुस्तकानि विलोकयामि स्म । तद्दिने मम हस्तयोर्वैद्यशास्त्रसम्बन्धि किञ्चित् पुस्तकमापतितम् । विलक्षणे तत्र पुस्तके विविधरोगाणामकारादिक्रमेण परिचयो लक्षणानि च वर्णितान्यासन् । यथाकथञ्चिन्मया तस्यैकं पत्रं समुद्घाट्य पठितम् । तस्मिन् पत्रे भस्मकरोगस्य वर्णनमासीत् । तत्र च तल्लक्षणानि मया पठितानि यथा - 'अस्य रोगस्य प्रभावेण बुभुक्षाऽतीव वर्धतेऽतो रोगी वारंवारमन्नभक्षणं करोति, तच्चाऽन्नं शीघ्रमेव रोगिशरीरे जीर्यते' । 'एतानि लक्षणानि तु मय्यपि वर्तन्तेऽतो मन्ये यद् रोगेणैतेनाऽहं एतत् पठित्वा मयाऽचिन्ति भृशमाक्रान्तोऽस्मी'ति । - ततोऽन्यदपि पत्रं पठितम् । तत्र तृड्-रोगस्य लक्षणानि वर्णितान्यासन्, यथा – 'एतद्रोगवतो जनस्य पौनःपुन्येन जलपानेच्छा भवति, बहुशो जलपानेनाऽपि सा नैव निवर्तते ।' यद्यपि जलपानमधिकृत्यैतल्लक्षणं तु मयि नाऽऽसीत् तथाऽपि चाय् - पानमाश्रित्य तु भृशमासीत् । अतो मया चिन्तितं यदयमपि रोगोऽन्यतरप्रकारेण मयि विद्यत एवेति । अथ च रोगद्वयं मयि विद्यते इति ज्ञात्वा मया प्रथमत एव तत् पुस्तकपठनं प्रारब्धम् । ततश्च यज्जातं तदद्याऽपि यदा चिन्तयामि तदा भृशं हसामि स्वमेवाऽधिकृत्य । प्रथममजीर्णरोगवर्णनं पठितम् । तस्याऽन्यानि लक्षणानि तु यद्यपि मयि नाऽऽसन् तथाऽपि ‘कार्यकरणेऽरुचि’रित्येकं लक्षणं तु मयि सर्वाङ्गव्याप्तमासीत् । अग्निमान्द्यस्य लक्षणानि तु भोजनानन्तरं घण्टाद्वयं वाऽनुभूयन्ते स्म । अक्षिरोगस्यैकं लक्षणं - वारंवारमक्षिनिमीलनरूपं तु मयि आविद्यार्थिकालात् शालायां पठनसमयेऽधुना च कार्यालये कार्यकरणकाले दृष्टिगोचरं भवति स्म अत एतदपेक्षयाऽहमाविंशतेर्वर्षेभ्यो नेत्ररोगेणाऽऽक्रान्तोऽस्मि इति मया चिन्तितम् । बद्धकोष्ठ (Constipation) रोगस्तु ममाऽऽजन्मसहयोगीति तल्लक्षणानि पठित्वाऽनुभूतम् । निद्रातिरेकरोगो हि मयि चरमदशावर्त्यस्तीति प्रतीतिर्जाता । तत आगतो निद्रानाशः । अयमेक एव रोग आसीद् यो मम कदाऽपि नैवाऽजायत । यतो निद्रानाशः कदाऽपि स्वतो नैव भवति स्म, अन्यप्रेरणयैव च भवति स्माऽत एतद्रोगविषये त्वहं सर्वथा निश्चिन्तो जातः । मस्तकपीडाऽपि मम यदा चाय- पेयं न प्राप्यते तदा भवति स्मैव । मेदोवृद्धिरपि ५६

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86