Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 55
________________ अहो ! आश्चर्यम् !!! मुनिन्यायरत्नविजयः विश्वमध्ये केचन विशिष्टा जनाः वसन्ति । न ज्ञायते ते किमर्थमीदृशानि कार्याणि कुर्वन्ति परमस्माकमक्षीणि तु तच्छ्रवणेनैव विस्फुरितानीव भवन्ति, कथ्यते च - अहो ! आश्चर्यम् !!! - इत्यस्माभिः। विद्यन्ते जगत्यस्मिन् केचन् विरला जना ये - लोकमध्ये वयं विश्रुताः कथं भवेमेति मनसि सदैव चिन्ताकुलाः भवन्ति । एतदर्थं च ते यं यमुपायं समाचरन्ति तत् तु वयं विचारयितुमपि असमर्थाः । फिलिपाइन्सदेशमध्ये 'आर्मान्दो मार्तिनाला'नामा युवा वसति । तेन तु निमेषत्रयेणैव ‘Capsicum frutescens'प्रजातेः पञ्चाशदधिकपञ्चशतानि हरितमरीचानि खादितानि । ईदृशाणां मरीचाणां कटुतायाः प्रमाणं त्रिंशत्सहस्त्राणि 'Scoville Unit' यावद् भवति । षड्वर्षपूर्वम् (७-४-२००५) अमेरिकादेशे 'चीली-चेम्पियन' इति विश्रुतेन 'मार्क-एलन'नाम्ना साहसिकेनैकनिमेषमध्ये हालापेन्यो (Jalapenoe) प्रजातेरेकादशमरीचानि खादितानि । __ अत्र स्मरणीयं यद् वयं यानि मरीचानि भक्षयामस्तेषां कटुतायाः प्रमाणं साधु सहस्रद्वयं (२५००) Scoville Unit यावद् भवति । 'हालापेन्यो'मरीचानां तु कटुतायाः प्रमाणमष्टौ सहस्राणि (८०००) Scoville Unit यावद् वर्तते। यद्यपि मार्क-एलनस्य पराक्रमोऽधिकसमयं नाऽतिष्ठत् । सप्तमासानन्तरमेव (२०-११-२००५) ओस्ट्रेलिया-वास्तव्यः 'स्टुअर्ट-रोसनामा साहसिक एकनिमेषेणैव तत्प्रजातेः पञ्चदश मरिचानि भक्षितवान् । अधुना तु यत्राऽस्माकं श्रद्धैव न भवेत् तादृशं दृष्टान्तं कथयितुमिच्छामि । भारतमध्ये आसामवास्तव्या अनान्दिता दत्ता तामुले-नाम्नी महिला रसनोपरि पतितान्यनाराणीव कटुकानि 'भूत-जोलाकिया' नामानि मरीचानि केवलं निमेषद्वयेनैवैकपञ्चाशत्-प्रमितानि भक्षितवती । एतत्प्रजात्याः मरीचस्यैकं कवलमपि सामान्यजनो भक्षयितुमसमर्थः । यतो भूत-जोलोकियाप्रजातेमरीचस्य कटुतायाः प्रमाणं तु दशलक्षाधिकानि 'Scoville Unit' यावद् भवति । ईदृशमश्रद्धेयं कार्यं कृत्वाऽपि सा हताशा जाता । यतस्तस्या मरीचभक्षणस्य समये 'गिनेसबुक ऑफ वर्ल्ड रेकोर्डस्' इत्यस्य निरीक्षका अनुपस्थिता आसन् । तेनैव कारणेन तत्पराक्रमस्तन्मध्ये समाविष्टो नाऽभवत् । (आधारः गूर्जरभाषीया 'सफारी' मासपत्रिका)

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86