Book Title: Nandanvan Kalpataru 2012 03 SrNo 28 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 7
________________ अथाऽष्टादशाक्षरपादं धूत्यां चित्रलेखावृत्तम् ऐन्द्रश्रेणीनतपदयुगला भव्यपापौघभैत्री कल्याणालीव्रततिविततिवार्दायमाणा मुनीनाम् । स्वान्तागारे वसतिमुपगता शान्तिधारां क्षरन्ती ते मूर्ति, भवतु शिवकरी चित्रलेखा" मनोज्ञा ॥३०॥ अथैकोनविंशत्यक्षरपादमतिधृत्यां मेघविस्फूर्जितावृत्तम् श्रयन्ति त्वां देवं गतभवरुजं भक्तिभावोत्तरङ्गाः सदा मूर्छन्मोहव्रजतमसि ये सूर्यभासायमानम् । ददन्ते तेषां भीलवमपि च नो स्वप्नकालेऽपि नाथ ! मृगारातीभाद्याः प्रतिभयतमा मेघविस्फूर्जितास्तु ॥३१॥ ____ अथैकोनविंशत्यक्षरपादमतिधृत्यां फुल्लदामवृत्तम् ये नित्यं श्रीमज्जिनवरवृषभं फुल्लदामप्रकाण्डैः भक्त्याच॑न्तीशं विगतभयभरं तीर्थनाथं तु वीरम् । तेऽर्च्यन्ते भव्याः सुरवरततिभिः पूर्णकामा अकामाः स्तुत्वा स्तूयन्ते सुरनरवृषभैर्यान्ति मोक्षं च शश्वत् ॥३२॥ अथ विंशत्यक्षरपादं कूत्यां गीतिकावृत्तम बहुलानुरागसुरासुराचितपादपङ्कजमादरात् परिषेवते जिन! यस्तवाऽमलभक्तितो जगतीतले । गुणशंसिनी किल तस्य देव ! नरेन्द्रवक्त्रविनिर्गता भुवनत्रयेऽपि विलासमेति जनस्य नाथ ! संगीतिका ॥३३॥ २८. मोभो नश्च त्रियगणसहितश्चित्रलेखा तदा स्यात् । उट्टवणिका यथा - ssss।।।।ss ssss २९. गणो याख्यः पूर्वं मगणरचना स्यात्पस्तान्मनोज्ञा भवेन्नाख्यो हृद्यो गण इह ततो यस्य बन्धो मनोज्ञः । ररौ स्यातां तस्माद्गुरुरिह यदा तर्हि मान्या बुधेन्द्रैः रसैः षड्भिवहिर्यतिरिह मता मेघविस्फूर्जिताऽसौ । उट्टवणिका यथा - 155 Sss, ।।।।। | ssss ३०. स्यान्माख्य: पूर्वं तगण इह ततो नेन हृद्यः परस्तात् तस्मात् साख्यश्चेत् रगणसुवलितो रेण नद्धं पुनश्च । तस्माद्गो यस्मिन् विबुधजनगणैः सेवितं सद्गुणाढ्यं ज्ञेयं प्राजस्तच्छरहयतुरगैः फुल्लदामाभिरामम् ॥ उट्टवणिका यथा - કડક કડી ll કિ હોડ ડોડ ३१. सजजान्विता भरसाश्रिता लगभूषिता खलु गीतिका ॥ अन्यत्राउप्युक्तं- वरपाणिशोभिसुवर्णकडूणरत्नरज्जुविभूषिता सुपयोधरा पदसङ्गिनूपुररुपकुण्डलमण्डिता । फणिराजपिङ्गलवर्णिता कविसार्थमानसहारिका वरकामिनीव मनोमुदे नहि कस्य सा खलु गीतिका ॥ उट्टवणिका यथा - S SS SS 0 SS SSPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 86