Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 29
________________ पूर्वतने काले किं वा सञ्जातं तत् साक्षाज्ज्ञातुं तु वयं सर्वथाऽसमर्था अतस्तस्य ज्ञानमस्माकं न कदापि भविष्यति । तदज्ञानमेव विज्ञानस्य सार्वदिकम् । ४. मस्तिष्के विचारः कथं समुद्भवति - इत्येतज्ज्ञातुं सर्वथाऽशक्यम् । यतः ----- मस्तिष्कं ह्याकारविशेषघटितैः कोषैः संरचितं मूर्त्तमस्ति, विचारास्तु निराकारत्वादमूर्ताः सन्ति । यथा हि - दुःखं, प्रसन्नता, सहानुभूतिः, शोको, भावुकतेत्यादयो भावास्तथा, सत्यानृतयोनिर्णयनं, समस्यानां सतर्कं निराकरणं, भाविन आयोजनमित्यादयो ये विचारा मस्तिष्के समुद्भवन्ति ते घनस्वरूपा नैव सन्ति । अतः साकारेण सह निराकारस्य सम्बन्धः कथं भवति - इत्येतज्ज्ञातुं न शक्ताः केऽपि । यद्यपि विचारणानन्तरं विचारविशेषस्य प्रकारो ज्ञातुं शक्य एव, किन्तु विचार एव कथं समुद्भूत इत्येतत्तु सर्वथा न शक्यं ज्ञातुम् । वैज्ञानिका हि मस्तिष्कस्य कार्यप्रकारमेवं वर्णयन्ति सङ्क्षपेण - प्रत्येकं कोषः (neuron) स्वप्रतिवेशिकोषेण सह सान्तरं संयुक्तोऽस्ति । एकेन कोषेण प्रेषिता रासायनिकाः सन्देशाः (neurotransmitters) तदन्तरमतिक्रम्याऽन्यं कोषं प्रभावयन्ति पूर्वं प्रभावितं वा शान्तं कुर्वन्ति । एवं चैतेषां सन्देशानां समग्रं परिभ्रमणं ज्ञानतन्त्रद्वारा सर्वा अपि शारीरिकक्रियाः सञ्चालयति नियमयति च । यद्यपि, एषा सर्वाऽपि प्रक्रिया न केवलं मनुष्यमस्तिष्के अपि तु मनुष्येतरप्राणिनां मस्तिष्केष्वपि सततं वर्तमाना भवति, अतो नूतनं तत्र न किञ्चिदस्ति । तथाऽपि, मनुष्यमस्तिष्के विचाररूपा या मानसिकप्रक्रिया भवन्ती विलोक्यते सा शारीरिकप्रक्रियात विशिष्टा उच्चस्तरीया चाऽप्यस्ति, तया प्रक्रियया मनुष्यः स्वेतरप्राणिभ्यो नैकगुणिते उच्चपदे प्रतिष्ठितो भवति; मनुष्यस्य च बुद्धिमत्ताऽपि तामेव प्रक्रियामवलम्बते, अतो मूर्तस्वरूपे मस्तिष्के अमूर्त्ता निराकारा वा विचाराः कथं समुद्भवन्ति - इत्येतद् विज्ञानिनां संशोधनस्य विषयीभूतमस्ति । अत्र क्षेत्रे ऐदम्प्राथम्येन ऐसवीये १९३०तमे संवति केनेडादेशीयो मस्तिष्कशस्त्रचिकित्सको वाइल्डरपेनफिल्डनामा प्रयत्नं कृतवान् । शस्त्रचिकित्सातोऽपि तस्य समादरः संशोधने आसीत् । अतः स स्वचिकित्स्यान् रोगिभ्यः संवेदनानाशकमौषधं (local anaesthesia) दत्त्वा तेषां करोटि समुद्घाटयति स्म, ततश्च तेषां विचारप्रेरकान् प्रश्नान् पृच्छति स्म । विचारकरणेन तेषां मस्तिष्के यत्र यत्र संवेदनं भवति स्म तत्तत् क्षेत्रं तेन यन्त्राणां सहायेन समुपलभ्यऽऽलेखितम् (mapping) । एतेन विचारसर्जका मस्तिष्कविभागा के - इति तु सामान्येन ज्ञातमभवत् । चिकित्साक्षेत्रे एतादृशं संशोधनमैदम्प्राथम्येनैव सञ्जातम् । एवंस्थितेऽपि विचाराणां सर्जनं कथं कया वा प्रक्रियया (thought process) भवतीति तु सर्वथाऽज्ञातमेवाऽतिष्ठत् । अद्यत्वे तु मस्तिष्कस्य बाह्यत एव सूक्ष्मावलोकनकराणि (Scanning) साधनानि सन्ति । अतः करोटिविदारणादिकं नाऽनिवार्यम् । साधनस्य (Scanner) प्रतिच्छायायां विचार-तर्कादिसर्जक-मस्तिष्कभागाः स्पष्टतया प्रकाशिता भवन्ति । (अर्थात् तेषु विभागेषु रक्तप्रवाहस्य न्यौन्याधिक्यं जायमानं तत्साधने प्रतिबिम्बितं भवति) । परं विचारोत्पत्तेः प्रक्रिया तु कथमपि ज्ञातुं न शक्या तादृशसाधनैरपि । २९

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86