Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 35
________________ पूज्यपाद श्री धर्मदासगणिना कथितम् तो पढियं तो गुणियं, तो मुणियं तो अ चेइओ अप्पा | आवडियपेल्लियामंतिओ वि जइ न कुणइ अकज्जं ॥ ( उपदेशमाला - ६४) ( तदा पठितं, तदा गुणितं तदा ज्ञातं, तदा च ज्ञाता आत्मा । आपतित-प्रेरितामन्त्रितोऽपि यदि न कुर्यादकार्यम् ।) अतोऽपि विचारदृष्टिमनुसृत्यैवाऽऽचारदृष्टिः वर्णिता । यत आचारो विचारस्य समान्तरोऽस्ति । एवमात्मानमनुशासितुं संयमयितुं चैवमन्येषामधिकाररक्षणार्थमादरभावमुत्पादयितुं च बहूपयोगिनी दृष्टिरस्ति एषा । अतो भगवताऽऽचारस्य पालनार्थं विवक्षितजीवानां कृते व्रतानि निरूपितानि । तत्र श्रमणानां कृते पञ्चानां महाव्रतानां तथा श्रावकाणां कृते द्वादशव्रतानां प्ररूपणं कृतं भगवता । तत्र - केषाञ्चिदपि जीवानां वध:, तेषामङ्गोपाङ्गानां छेदनं, तेषां बन्धनम्, आश्रितस्य शोषणं पीडनं चेति प्राणातिपातो हिंसा । एतस्माद् विरमणं, तन्नाम प्राणातिपातविरमणं प्रथमं व्रतम् । — — - - - सर्वदा सत्यमाश्रयणीयम्, कस्मैचिदपि मृषोपदेशो न देयः, तन्नाम द्वितीयं मृषावादविरमणं व्रतम् । अन्येषां वस्तूनामचौर्यं वाणिज्ये नीतेराचरणं, च, तन्नाम तृतीयमदत्तादानविरमणं व्रतम् । स्वपत्न्यामेव सन्तोष:, परस्त्रियः प्रति कुदृष्टेस्त्यागश्च चतुर्थं स्वदारासन्तोषपरस्त्रीगमनविरमणं व्रतम् । बन्धो ! यथा यथा लाभो वर्धते तथा तथाऽतृप्तिस्तृष्णा चाऽपि वर्द्धते । अत्राऽतृप्तिः केवलं धनस्यैव भवतीति न, अपि तु व्यक्तेर्वस्तुनो वातावरणस्य पद-प्रतिष्ठाया महत्त्वाकाङ्क्षायाश्चाऽपि भवति । अतृप्तिः क्लेशं सङ्घर्षं च जनयति, क्लेशो दुःखस्य कारणमस्ति । दुःखी जीवो न कदाऽपि शान्तिमनुभवति । अतः क्लेशनिवारणार्थं सन्तोषस्तृप्तिश्चैवोत्तममार्गोऽस्ति । आवश्यकधनस्य संग्रहो नाऽतृप्तिः, किन्तु विशेषधनस्य परिग्रहोऽतृप्तिः । अत एव परिग्रहस्य परिमाणम्, इच्छायाश्च परिमाणं नाम पञ्चमं व्रतमुक्तम् । एवमहिंसायाः पालनार्थं व्यवहारशुद्ध्यर्थं चैवाऽतीवोपयोगीनि व्रतान्येतानि सन्ति । निश्चितपरिमाणादधिकं न गमनं नाम षष्ठं दिक्परिमाणं व्रतम् । यस्य वस्तुन एकवारमुपयोगो भवति स भोग उच्यते, अनेकश उपयोगो भवति स उपभोगः कथ्यते । एवं खाद्याखाद्य-पेयापेय-करणीयाकरणीयादीनां भोग-उपभोगयोग्यानां वस्तूनां परिमाणं नाम सप्तमं व्रतम् । ३५

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86