Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सर्वदा शून्यांशमिते शैत्ये एव स्थापनीयानीति नियमोऽपि ताभ्यां भञ्जितः । वातानुकूलयन्त्रं वायुनाशनयन्त्रं (Flare) चाऽपि ताभ्यां सर्वथा स्थगितम् । अनेनोद्योगालये सर्वथा विनाशकारिणी परिस्थितिः सञ्जाता। किन्तु ताभ्यामेतत् किमपि न चिन्तितं सर्वथा ।
एतत् सर्वं ज्ञात्वा पुनरपि केसवाणी स्वीये वृत्तपत्रे पूत्कृतवान् - 'भो भोपालवासिनो जनाः ! अधुनाऽपि जागृता भवन्तु । कस्मिन्नपि क्षणे कार्बाइडसंस्थायां सर्वनाशकारी विस्फोटो भविष्यत्येव' । किन्त्वेकेनाऽपि जनेन सर्वकारीयाधिकारिणा वा तत्रावधानमपि न दत्तम् ।
(विनाशकाले विपरीता बुद्धि: स्यात् खलु !)
अन्ततस्तद्दिनमपि समागतम् । २ / १२ / १९८४ तमे दिनाङ्के जर्मनीदेशात् बेयर्स (Bayers) संस्थायाः कश्चन रसायनतन्त्रज्ञोऽत्र भोपालनगरे कार्बाइडसंस्थायां कार्यवशादागत आसीत् । तेन तानि त्रीणि सञ्चयस्थानानि वायुपूर्णानि दृष्ट्वाऽतीव भयभीतेन संस्थाप्रतिनिधये उक्तम् – ' भोः ! किमर्थमेतावान् वायुरत्र सञ्चितोऽस्ति ? अयं न वायुरपि तु सर्वविनाशकोऽणुविस्फोटकः ( Atom Bomb ) ' । किन्तु तद्वचोऽपि न केनाऽपि मनसिकृतम् ।
अथ च तस्यामेव रात्रौ यदा द्वादशवादनं जातं तदा तेषु सञ्चयस्थानेषु वायुसम्मर्दः (pressure) अत्यधिकं वर्धितः । (ननु कालराक्षसः जागृतः) । पञ्चाधिकद्वादशवादने च महता शब्देन सह प्रचण्डो विस्फोटो जातः । विषमयो वायुः सर्वत्र प्रसृतः । निकटस्थितायां वसतौ सुप्ता: स्त्री-पुरुष-बालकाः प्रायः त्रिंशत्सहस्रमितास्तु तत्क्षणमेव यमसदनं प्राप्ताः । सहस्रशो जना अन्धीभूताः सहस्रशश्च विकलाङ्गा जाता: । सहस्रशो जनानां त्वक् तीव्रतया दग्धा । एतदुपर्यपि पञ्चलक्षमिता जना एतेन विस्फोटेन पीडिता: । एतत् सर्वं तु तदैव सञ्जातम् । परमद्याऽपि, ननु विंशतेर्वर्षाणामनन्तरमपि सहस्रशो जनास्तस्य वायोर्विषमयं फलं भुञ्जन्ति विविधपीडाव्याजेन ।
तत्र च मुख्यतया मस्तिष्करोगः सहस्रशो जनान् पीडयति । तथा बहवो जना नेत्र - क्लोम - स्नायु - यकृत्-मूत्रपिण्ड-सन्धिवातादिभी रोगैः पीडिताः सन्ति । एतेन तेषां शरीराणि मनांसि च दुर्बलानि जातानि । ते हि स्वीयं दैनन्दिनं व्यवहारं कर्तुमपि न शक्नुवन्ति ।
अन्यच्च विंशतेर्वर्षाणामनन्तरमपि कार्बाइडसंस्थाया उद्योगालयो यथातथमेव तिष्ठति । वायुविस्फोटानन्तरं तत्राऽद्यावधि न किञ्चित् शुद्धीकरणं मार्जनं वा कृतमस्ति । परिणामतस्तत्र समग्रेऽपि परिसरे समीपस्थेषु च कूप-तडागादिजलाशयेषु प्राय एकविंशतिविधानि विषमयानि रसायनानि विद्यन्ते । एतेन तत्रत्यं वातावरणमद्याऽपि प्रदूषितमेवाऽस्ति । जले च पारदस्य प्रमाणमपि सामान्यत: सप्ततिगुणितमधिकं विद्यते । समीपस्थेषु क्षेत्रेषु यत्किञ्चिदप्युत्पाद्यते तदपि विषमयमेव भवति । अणुविस्फोटानन्तरं प्रवर्तमानकिरणोत्सर्गवदत्राऽपि विषमयवायोरुत्सर्गोऽद्यावधि नैव शमितः । दुःखस्य विषयस्त्वयं यद् - ये केचन नवजाता बालकाः सन्ति तेषु कर्कट (cancer) रोगस्य प्रमाणमधिकमस्ति । तज्ज्ञा वदन्ति यद् -
४९

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86