Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
निश्चितं नास्ति । तथा, अस्य सञ्चयोऽपि नोचितः सुरक्षादृष्ट्या । अतः प्रथममेव विचिन्त्य तदुत्पादनं कर्तव्यम्" । किन्तु धनलोभिभिर्व्यवस्थापकैस्तत् सर्वं सर्वथोपेक्ष्योत्पादनकार्य प्रवर्तितमेव । विज्ञापनैश्च जना अपि एतदुपयोगार्थमाकर्षिताः ।
किन्तु, तत् सर्वमपि विफलीकर्तुमिव तस्मिन् वर्षे मध्यप्रदेशराज्ये वृष्टिरेव न सञ्जाता । उत्पादनं तु नैव स्थगितमासीत् । अतस्तस्य सञ्चयं कर्तुं तैस्त्रीणि सञ्चयस्थानानि कारितानि यानि सुरक्षादृष्ट्या सर्वथाऽनुचितानि भयानकानि चाऽऽसन् । (प्रकृतेर्मनुष्यस्य चैकैकमपि पदं विनाशं प्रत्येव नयद् आसीद् अत्र ।)
अथ च संस्थामुख्यैरुद्योगालयस्य मुख्यनिर्वाहकपदे (Director) डी.एम.चक्रवर्तिनामा बंगीयजनो नियुक्तः । स हि सर्वथा निष्ठारहितो मद्यपश्चाऽऽसीत् । अनया नियुक्त्या सोऽतीव हृष्टो जातः । तस्यैतदुद्योगालयविषयकं रसायनसम्बन्धि च ज्ञानं नाऽऽसीदेव । सहैव स स्वं सर्वज्ञानसम्पन्नमप्यमन्यत । अतोऽन्यनिर्वाहकैरधिकारिभिश्च सहैतद्विषयिकी चर्चा कर्तुमपि सज्जो नाऽऽसीत् । निजवाक्यमेव प्रमाणमन्त्यसत्यं चेति स्वयममन्यत, अन्यानपि तदेव स्वीकारयितुं दुराग्रहोऽपि तस्याऽऽसीत् ।
द्वितीयो निर्वाहकस्तु ततोऽप्यग्रेसर आसीन्मूर्खत्वे । तस्य नाम आसीद् जगन्नाथ-मुकुन्दः इति । स सर्वदैव वातानुकूलिते स्वीये कार्यालये एवोपविशति स्म । उद्योगालयं निरीक्षितमपि न गच्छति स्म, वस्त्रमालिन्यं स्यादिति भयात् ! |
दुभिक्षकारणात् रसायनविक्रयणं सर्वथा स्थगितं जातम् । अनेन व्यवस्थापकैश्चिन्तितं – 'यदि विक्रयणमेव न स्यात् तदोत्पादनस्य नाऽस्ति कश्चिद् अर्थः' इति । ततश्च तैस्तदुत्पादनं रोधितम् । बहवः कर्मिणोऽपि तैः कार्यच्युताः कृता येन व्ययोऽप्यल्पीभवेत् ।
एतैः सर्वैः कारणजातैरुद्योगालये सुरक्षानियमपालनमपि शिथिलं जातम् । नियतेषु निरीक्षणपरीक्षणेष्वपि उपेक्षणं वधितम् । त्रीणि सञ्चयस्थानानि त्वद्याऽपि पूर्णान्येव आसन् । उत्पादनेऽसति तेषु स्थितो विषमयो वायुरपि कुत्र व्यापार्येत ? इयं चाऽतीव भयङ्करी परिस्थितिरासीत् ।
अन्यपाश्चात्यदेशेषु यत्र यत्रेदं रसायनमुत्पाद्यते स्म तत्र यथाप्रयोजनमेव वायुरयं प्रगुणीक्रियते स्म । तत्सञ्चयं तु तत्रत्या जनाः स्वल्पमात्रमपि न कुर्वन्ति स्म । एतद्वैपरीत्येन भोपाले कार्बाइडसंस्थाव्यवस्थापकैः शताधिकटनमितो वायुः सञ्चित आसीत् । अत्यन्तं संवेदनशीला स्फोटका च परिस्थिति:रासीदियम् ।
केसवाणी हि वृत्तपत्रमाध्यमेनैतद्विरोधं कर्तुं बहु पूत्कृतवान्, जनांश्च जागरयितुमत्यन्तं परुषशब्दैर्लेखान् लिखितवान् किन्तु सर्वोऽपि विनाशं प्रति धावन्निव तस्यैकमपि शब्दं श्रोतुं सन्नद्धः नाऽऽसीत् ।
____ इतश्च ताभ्यां द्वाभ्यामपि मूर्खशिरोमणिभ्यां निर्वाहकाभ्यां किमप्यचिन्तयित्वा विद्युतो व्ययं न्यूनं कर्तुमुद्योगालयस्य सर्वाऽपि सुरक्षाव्यवस्था निरोधिता । स्फोटकविषमयवायुभृतानि त्रीणि सञ्चयस्थानानि
४८

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86