Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 52
________________ मर्म गभीरम् मुनिकल्याणकीर्तिविजयः १. दरिद्रः कः ? एको युवा धनमदेनोन्मत्तो गविष्ठश्चाऽभवत् । एकदा स सद्गुरुमपि स्वीयधनाढ्यत्वदिदर्शयिषयाऽवहेलनेच्छया च सम्प्राप्याऽविनीततया शिष्टाचारादि विनैव तदुपहासं कर्तुमारब्धवान् – 'भोः ! भवांस्तु सर्वथा दरिद्रः प्रतिभाति । भवत्समीपे किमपि प्रासादादिकं धन-धान्य-वाहनादिकं वा नैव विद्यते खलु !' गुरुणाऽपि विहस्योक्तं – 'भोः ! अहं यदि भवते दरिद्रः प्रतिभामि तदा न काऽपि बाधा, किन्तु भवांस्तु नाऽस्त्येव दरिद्रः किल !!' । युवकः सगर्वमुक्तवान् – 'किं भवान् मामपि न परिचिनोति वा ? मम स्वाम्ये दशाधिका उद्योगालया वर्तन्ते येभ्यः प्रतिवर्ष कोटिशो रूप्यकाण्यर्जयामि । जगतः श्रेष्ठानि कार्-यानानि मम परिवहनाय सन्ति, विशालश्च हो मे निवासाय कल्पितोऽस्ति । किङ्करा अपि मे वचोऽनुष्ठानाय शतशः सन्ति । सुखं जीवनाय यत् किमप्यावश्यकं तत् सर्वमपि मत्स्वाम्ये विद्यते । यद्यपि सर्वमप्येतत् कथयितुं नैवोचितं तथाऽपि भवतो ज्ञापनार्थमेवेयत् कथितम् । अन्यथा मम वैभवं त्वितोऽप्यनेकगुणितमस्ति' । एतन्निशम्य गुरुणा सस्मितमुक्तम् – 'एवं वा ! तहहं मन्ये यद् भवत इतोऽप्यधिकस्याऽभिलाषो नैव स्यात्, एतावदेव पर्याप्तं स्यात् !' । तदोत्तेजितो युवाऽवदत् - 'किं वदति भवान् ? एतत् तु किमपि नास्ति । अहमितोऽपि सहस्रगुणितं धनमर्जयिष्यामि जगतोऽप्यधिकतया धनाढ्यो भविष्यामि - इति मे हादिकोऽभिलाषः' । गुरुः शान्त्याऽकथयत् - 'भवत्सकाशे एतावद् धनमैश्वर्यं चाऽस्ति तथाऽपि भवानेवं मन्यते यत् - मत्पार्वे किमपि नास्ति । तथा भवांस्ततोऽपि सहस्रगुणितमिच्छति । मम समीपे तु किमपि नास्ति, तथाऽहमितोऽपि किञ्चिन्नैवाऽभिलषामि । एवंस्थिते वदतु भवानेव - क आवयोर्दरिद्रः? इति' । श्रुत्वैतत् सर्वथा लज्जितो युवकः स्वीयमज्ञानं प्रति हसितवान् गुरोश्च चरणयोर्वन्दित्वा क्षमां च याचित्वा ततो निर्गतः । "स भवति दरिद्रो यस्य तुष्णा विशाला" । ५२

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86