Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
रोगोऽयं मातुः स्तन्यपानेन भवतीति ।
तथाऽन्येऽपि बहवो जनाः कर्कटरोगेण पीडिताः पीड्यमानाश्च सन्ति । तेषां प्रमाणमद्याऽपि वर्धमानमस्ति । सर्वकारेण घोषितं यत् - कर्कटरोगग्रस्तानां निःशुल्कं चिकित्सा करिष्यते । परन्तु यो रोगी प्राथमिकस्तरे स्यात् सोऽपि निःशुल्कचिकित्सार्थं तत्र गतः सन् शिथिलतन्त्रेण बहुकालं विलम्बं प्राप्य तृतीयस्तरं प्राप्यैवमेव म्रियते ।
बहुभिः संशोधकैः कथितमस्ति यत् प्रदूषितफल-धान्यादिभक्षणेन कर्कटरोगोऽत्र वर्धमानोऽस्ति । तथाऽपि मध्यप्रदेशीयः सर्वकारः स्वीयदायित्वाद् विमुक्तीभवितुं कथयति यत् – “कर्कटरोगस्तु तमाखुसेवनेन भवति" । परन्तु स न चिन्तयति यत् स्तन्यपायिनो बालाः कुत्र तमाखुसेवनं कर्तुं गताः - इति?
अथ च कार्बाइडसंस्थाया अमेरिकीय: प्रमुखो वॉरन-एन्डरसनः ६-१२-१९८४तमे दिनाङ्के (विस्फोटानन्तरं तृतीये दिने) भोपालं प्राप्तो विमानयानेन । तेन सह तस्य भारतीयसहायकौ गोखले-महिन्द्रौ चाऽप्यास्ताम् । विमानस्थानके एव ते त्रयोऽपि रक्षकदलेन बन्दीकृताः । न्यायाधीशेन च ते विविधैर्दोषारोपैरारोपिताः, आजन्मकारावासं यावच्च तेषां दण्डो विधीयते - इत्यपि सूचिताः । तथा कथञ्चिदपि तेषां मुक्तिनँव स्याद् - इत्यपि तेभ्यः कथितम् ।
किन्तु घण्टात्रयानन्तरमेव अमेरिकीयसर्वकारनिर्बन्धेनाऽस्माकं भीरुः सर्वकारस्तं ससम्मानं मोचितवान् विशेषविमानेन च स्वदेशं प्रति प्रेषितवान् । एतज्ज्ञात्वा जनतया वृत्तपत्रैश्च बहुविरोधः कृतः पूत्कृतं च बहुशः, किन्तु सर्वमपि निष्फलं जातम् । भारतीयविदेशमन्त्रिणा अमेरिकीयसर्वकाराय सशपथं कथितमासीद् यद् एन्डरसनस्य केशोऽपि न उच्छेत्स्यते । (राजकार्ये मुख्ये जाते न्यायं को वा पृच्छेत् ?)
किञ्च, अद्यावधि कार्बाइडसंस्थया विस्फोटग्रस्तानां कृते देयं धनं पूर्णतया न प्रदत्तम् । यच्च धनं तया सर्वकाराय प्रदत्तं ततोऽपि जनेभ्यः न प्राप्तम् । न जाने मध्ये एव कुत्र विनष्टं तत् । को वा पृच्छति सर्वकारं कार्बाइडसंस्थां वा? पृष्टेऽपि च को वा समुचितमुत्तरं प्रदत्ते? सर्वाण्यपि नैतिकमूल्यानि सर्वथा नष्टान्यस्माकं देशे इति प्रतीयते किल !
[मम तु सार्वदिकं निरीक्षणमस्ति यद् अमेरिकीयजनाः सर्वथा स्वार्थिनः सन्ति । निर्दयाश्चाऽपि सन्ति । ते यदपि कुर्वन्ति तत् सर्वं स्वार्थपुष्ट्यर्थमेव । जापानदेशे हिरोशिमा-नागासाकीनगरयोरुपरि बमप्रक्षेपणस्याऽऽवश्यकतैव नाऽऽसीत् । केवलमेतैः स्वार्थान्धैर्जनैर्जीवद्-बमपरीक्षणं कर्तुं तानि प्रक्षिप्तानि । फलतश्च लक्षशो जना मृताः । किन्तु अमेरिकीयानां मनसि तदर्थं पश्चात्तापलेशोऽपि नास्ति । इहाऽपि सहस्रशो जना मृता म्रियन्ते चाऽद्याऽपि, किन्तु तेषां न कश्चित् खेदः शोको वैतदर्थम् ! 'सर्वे म्रियन्तां नाम ! वयं किल तेषामुपयोगं कृत्वा सुखेन जीविष्यामः !' - इत्यस्ति तेषां मनोवृत्तिः । यावच्च वयं तेषां धनेनाऽऽडम्बरेण वा प्रभाविता भविष्यामस्तावत् त्वेषैव स्थितिः प्रवर्तिष्यते इति निश्चप्रचम् ।]

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86