Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
क्रुद्धः सन्नुद्योगालयस्य सर्वमपि वृत्तं ज्ञात्वा तद्विरोधार्थं स्वीयवृत्तपत्रे लेखान् लिखितुमारब्धः । तेन लिखितं यद् – 'भो भोपालवासिनः ! कार्बाइडसंस्था सर्वथा विषमयी विनाशकारिणी चाऽस्ति । कृपया जागरिता भवन्तु, नगरं च रक्षन्तु' । किन्तु केन्द्रसर्वकारः, राज्यसर्वकारः, अधिकारिणः, लोकनेतारः, शिक्षिताः जनाः - इत्येतेषामन्यतमेनाऽपि दुर्भाग्यात् तस्य लेखान् प्रति लक्ष्यं न दत्तम् ।
तथाऽपि स निराशोऽभूत्वा पुनः पुनलिखितवान् – 'भो भोपालवासिनः ! अद्य वयं भयानकज्वालामुखोपर्युपविष्टाः स्मः । यदा स ज्वालामुखः स्फुटितो भविष्यति तदा समग्रमपि भोपालनगरमुद्योगालयो विनाशयिष्यति । नगरमिदं मृतकानां नगरं भविष्यति !!" किन्तु सुषुप्तं सर्वकारतन्त्रं, प्रमत्ता मन्त्रिणः, धनलोलुपाः संस्थाव्यवस्थापकाः – को वा केसवाणीवचनानि शृणोति ?
तस्य स्पष्टवचनानि न केनाऽपि लक्षितानि, प्रत्युत संस्थाया मिथ्याप्रचारः सफलोऽभवत् । सर्वकारं जनांश्च प्रतारयन्ती सा सर्वदा कथयन्ती आसीत् - अस्माकमुद्योगालयः सर्वथा सुरक्षितोऽस्ति, निर्दुष्टं च सर्वमप्यत्रोत्पादनमस्ति - इत्यादि ।
मन्त्रिभिरपि कैश्चित् तत्समर्थनं कुर्वद्भिर्घोषितम् - अत्र यो वायुरुत्पाद्यते स सर्वथा निर्दोषो हानिरहितश्चाऽस्ति । अतोऽत्र चिन्तायाः कारणमेव नाऽस्ति - इत्यादि ।
एतत् सर्वं श्रुत्वा केसवाणी अतीव क्रुद्धो जातः । किन्तु स एकलः किं वा कुर्यात् ? तथाऽपि तेन कार्बाइडसंस्थायाः सर्वमपि दुष्टत्वं भयजनकत्वं च पत्रे विलिख्यैकं पत्रं सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशं प्रति, अन्यच्च मुख्यमन्त्रिणेऽर्जुनसिंहाय प्रेषितम् । किन्तु जनतादौर्भाग्येण मुख्यन्यायाधीशेन तदवगणना कृता, अर्जुनसिंहस्तु अमेरिकीयाधिकारिणां मित्रतया सर्वथा पत्रमिदमुपेक्षितवान् । (नूनं कालस्य गतिरचिन्तनीया ।)
भारतदेशो हि कृषिप्रधानोऽस्ति । कृषिश्च मुख्यतया वृष्टिमेवाऽवलम्बते । भोपाले संस्थाया उद्योगालयारम्भानन्तरमेव देशे बहुत्र विभागेषु वृष्टिरल्पीयसी जाता । तेन कृषिरपि मन्दीभूता । ततश्च रसायनविक्रयणमपि स्थगितम् । एतेन उद्योगालये तदाधिक्यं जातम् । अतो व्यवस्थापकैः सुरक्षायाः सर्वामपि सीमानमुल्लङ्घय चत्वारिंशत्-टन-मितो वायुर्यत्र मायात् तादृशानि त्रीणि सञ्चयस्थानानि (Tank) कारितानि ।
यद्यपि वोरनवूमराभिधोऽमेरिकीयोऽधिकारी अतीव प्रामाणिको नियमपालनस्य चाऽऽग्रही आसीत् । सुरक्षाविषये तेन सर्वेऽपि अधिकारिण व्यवस्थापकाश्च दृढतया सूचिता आसन् यद् - एकं सूक्ष्मकीलकमपि शिथिलं न भवेत् - इति भवद्भिः सर्वदा निरीक्षणीयम् । किन्तु धनलोलुपानां तेषां विवेक एव विनष्ट आसीत् । अतस्तैस्तस्य वचनेऽवधानमेव न दत्तम् । स तु अधिकारी कार्यवशात् स्वदेशं प्रतिनिवृत्तः ।
__ किञ्च, यदा भोपालनगरे उद्योगालयं स्थापयितुं कार्बाइडसंस्थामुख्यैनिश्चितं तदैव तेषां प्रतिनिधिना स्पष्टं कथितमासीत् यद् - "भारतदेशे कृषिर्वृष्टिमेवाऽवलम्बते । अतो रसायनं सर्वदा विक्रेष्यते एवेति
४७

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86