Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
Isocyanate)- इत्यस्ति । तन्नामाऽस्मिन् रसायने साइनाइड-नामकं विषमस्ति । जगत्येवेदृशं भयङ्करं जन्तुनाशकं रसायनमद्यावधि केनाऽपि समुत्पादितं नाऽऽसीत् । मनुष्य-पशु-पक्षिणामुच्छ्वासे यद्यस्य रसायनस्यांऽशोऽपि प्रविशेत् तदा तत्क्षणमेव मृत्युभवेत् । भाग्ययोगेन यदि कश्चन जीवितस्तिष्ठेत् तदाऽपि तस्य त्वग् विनश्येदन्धत्वं वा स प्राप्येत् । (अयमासीत् शृङ्खलाया अन्यतमो मुख्योऽशः ।)
रसायनं तूत्पन्नं, किन्तु भारतदेशे तस्य प्रेषणं भयजनकमासीत् । अतो वैज्ञानिकैः कार्बाइडसंस्थामुख्यानां कथितं यद् - यदि भारतदेशे एव कुत्रचित् रसायनमिदमुत्पाद्येत विक्रीयेत च तद सुरक्षादृष्ट्या वरम् । संस्थामुख्येभ्योऽपि इदमेव रुचितम् । यद्यपि संशोधकवैज्ञानिकैः स्वीयनिवेदने स्पष्टतया प्रामाणिकतया च लिखितमासीत् - यद् - रसायनमिदं सर्वथा विषमयं जीवनहानिकरं च । तथा यद्यप्यस्मिन् हायड्रोजन-साइनाइड-नामकं विषमस्ति तथाऽप्यस्य प्रभावादनुक्षणमेव यदि थियोसल्फेटऔषधं सूचीप्रयोगेण दीयेत तदा प्राणहानिनिवारिता स्यात् । किन्तु कार्बाइडसंस्थाया धनलोलुपैः कार्यकर्तृभिः सर्वमपि तथ्यमेतत् सर्वथा गोपितम् । रसायनस्योत्पादनविधिपत्रे उपयोगपत्रे वाऽपि तथ्यमिदं नैव निर्दिष्टम् । (शृङ्खलेयं कथं वर्धते इति द्रष्टव्यम् ।)
कार्बाइडसंस्थामुख्यैर्भारतदेशे कुत्र स्थाने उद्योगोऽयं स्थापयितव्यः - इति समीक्षितुं स्वीयप्रतिनिधिः एडुआर्डो-मुनोसनामकः प्रेषितः । सोऽपि अत्राऽऽगत्य बहूनि स्थानान्यटितवान् । यदा स मध्यप्रदेशे भोपालमहानगरं प्राप्तस्तदा तत्र सर्वमपि स्वानुकूलं परिसरं दृष्ट्वा चिन्तितवान् यद् - इदमेवोद्योगस्थापनस्य योग्यं स्थानमस्ति । (विनाशकालः सन्निहितो भवन् लक्ष्यते ।)
कार्बाइडप्रतिनिधिना तेन भोपालनगरे स्थिता दुर्गतानां वसतिः कथमपि वीक्षिताऽऽसीत् । एते दीन-दरिद्रा जना स्वल्पवेतनेनैवोद्योगालये कार्यार्थमवश्यमागमिष्यन्तीति तेनाऽवगतमासीत् । अतस्तेन संस्थाधिकारिण एतदर्थं निवेदिताः । तैरपि भोपालनगरं गत्वा सर्वोऽपि विधिः साधितः । (भारतदेशे धनबलेन यत्किमपि कर्तुं शक्यमेव - इति तु नाऽविदितं सर्वेषाम् ।) उद्योगालयो भोपाले स्थापयिष्यते - इति ज्ञात्वैव कर्मकरनियोक्तारः (Contractor) उडीशाराज्यं प्रति धाविताः । तत्र तु दुभिक्षमेवाऽऽसीत्, अतः - भवद्भयो भोपालनगरे वृत्तिर्लप्स्यते - इति कथयित्वा शतशो दुर्गतजनान् ते भोपालनगरमानीतवन्तः । एतेषु मुदिलापाग्रामजना अप्यासन् । सर्वेऽपि एते जना उडीयाजनानां दुर्गतवसतौ समाविष्टाः कथमपि। तेषां तु कल्पनैव नाऽऽसीद् यत् करालः काल एव तानत्राऽऽनीतवानस्ति ।।
कार्बाइडसंस्थाधिकारिणस्तु प्रवृत्तं सर्वमपि विलोक्याऽतीव प्रमुदिता जाताः । अल्पविनियोगेनाऽधिको लाभो भवितेत्यवगम्य तेषां हर्षस्याऽवधिरेव नाऽऽसीत् । संस्थाया न्यायसचिवैः सूचितमासीत् यद् - रसायनकूप्या उपरिभागे नरकपालस्य अस्थिद्वयस्य च चित्रं मुद्रयितव्यं, तदधस्तात् 'भयजनकम्' इति तथा 'रसायनमिदं यदि श्वासे प्रविशेत् तदा दुष्परिणामा भवन्ति' इत्यपि मुद्रयितव्यम् । अनेनाऽस्माकमुत्तरदायित्वं न भवेत् । धनलालसैः संस्थामुख्यैर्यथातथं विहितमेतत् । तैख़तमेवाऽऽसीत् यद् - भारते बहुशो जनाः पठितुमपि न जानन्तीति ।
४५

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86