Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(इदमासीत् शृङ्खलायाः द्वितीयं खण्डम् ।)
दुर्गतास्ते ग्रामजनाः सर्वमप्येतत् प्राप्य अतीव हृष्टा जाताः । स्वेष्टदेवं जगन्नाथं प्रणमद्भिस्तैभृशमुत्साहन स्वस्वक्षेत्रेषु धान्यं तुणादि चोप्तम् । ततश्च प्रत्यहं विवर्धमानान् स्तम्बान् विलोक्य मोदन्ते स्म ।
अथ चैकस्मिन् दिने किञ्चिदनपेक्षितं घटितम् । यदा हि तैामजनैः क्षेत्राणि गत्वा विलोकितं तदा सर्वेऽपि स्तम्बाः सहस्रशो जन्तुभिविनाश्यमाना दृष्टाः । श्यामवर्णकैर्लघुलघुभिः सहस्रशो जन्तुभिः प्रत्येकं स्तम्ब आमूलं विनाशित आसीत् । जनास्तु व्याकुलहृदयाः सर्वमपीदं भगवत्कोपं मन्यमाना भगवत्पुरतो बहूनि पूजोपयाचितादीनि कृतवन्तः, किन्तु भगवान् जगन्नाथः प्रसन्नो नैवाऽभवत् ।
वस्तुतस्तु ये जन्तवो मृत्युदूता इव प्रतिक्षेत्रं प्रतिस्तम्बं चाऽभिव्याप्य सर्वमपि विनाशयन्ति ते वैज्ञानिकैः एफिड्स (Aphids) इति नाम्ना उपलक्षिताः सन्ति । अत्राऽपि तैरेव जन्तुभिः सर्वं विनाशितमासीत् । एतेन ते दुर्गता जना निराशतया रुदन्तः स्वभाग्यं निन्दितवन्तः। (इदं शृङ्खलायास्तृतीयं खण्डम् ।)
वनस्पतीनां शत्रव इवैते जन्तवः कति सन्तीति ऊहितं कदाचित् ? अद्यावधि पञ्चाशीतिः सहस्राणि जन्तूनां जातयो वैज्ञानिकैरभिज्ञाताः सन्ति ।
तेषामन्यतमस्य ब्लेक-एफिड्स-इतिनाम्नो जन्तोरुपद्रवो मुदिलापाग्रामे इव उडीशाराज्यस्याऽन्यस्मिन्नपि विशालप्रदेशेऽभिव्याप्तः सर्वत्र च दुष्कालतुल्यपरिस्थितिमजनयत् । वार्ता चैषा सर्वत्र जगति प्रसिद्धा ।
यद्यपि क्षेत्र-धान्यादिरक्षणार्थं जन्तुनाशकानि रसायनानि निर्मीयन्ते एव, उपयुज्यन्ते चाऽपि । किन्तु गच्छता कालेन तेषां प्रभावोऽल्पीभवति तथा प्रभाव इव कुप्रभावोऽपि धान्ये पशु-पक्षिष्वन्यजन्तुषु च भवति ।
अथ च वार्तामेतां श्रुत्वा अमेरिकादेशस्य विलियम-बोइसथोम्सन नाम्नो धनपतेर्मनसि भावनोत्पन्ना यद मदीयं धनं यद्येतेषां दरिद्रजनानां साहाय्यार्थमुपयुज्येत तदा वरम् । किन्तु एवमेव धनसाहाय्यं न कर्तव्यमपि तु तादृशं रसायनं संशोधनीयं यदुपयोगेनैते जन्तवो विनाशिता भवेयुर्धान्यं च रक्षितं स्यात् । अतस्तेन वैज्ञानिकेभ्य एतदर्थं विज्ञप्तिः कृताऽनुदानं चोद्घोषितम् । एतेन बहवो वैज्ञानिका विशेषतस्तु अमेरिकादेशस्य कार्बाइडसंस्थाया वैज्ञानिका एतद्रसायनसंशोधनार्थं प्रयोगरताः सञ्जाताः । तैर्हि स्वप्रयोगशालायां भारतदेशस्थं वातावरणं कृत्रिमतया सृष्ट्वा ताः सर्वा अपि वनस्पतयस्तत्रोत्पादिताः, या ब्लेक-एफिडस्जन्तुभिरुपद्रूयन्ते, तासु च विविधरसायनानां प्रयोगाः कृताः । (शृङ्खलावृद्धिः जाता ।)
____ बहुभिः प्रयोगैस्तैरुपलब्धं यद् – यदा फोस्फरसपदार्थजनितो भयङ्करः फोस्जीनवायुः मोनोमिथिल्माइनवायुना मेल्यते तेन च सह आल्फा-नेप्थॉलरसायनं यदा मेल्यते तदा भयङ्करं जन्तुनाशकं रसायनं 'सेविन' (Seven) नामकमुत्पन्नं भवति । अस्या रासायनिकं नाम मिथैल-आइसोसायानेट (Methyl
४४

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86