Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 36
________________ - प्रेक्षणक-नाटकादिना कर्मणाऽकारणं आत्मा दण्ड्यते सोऽनर्थदण्डः । ततो विरमणं नाम अष्टममनर्थदण्डविरमणं व्रतम् । एतानि त्रीण्यपि व्रतान्यहिंसां दृढयन्ति । - घटिकाद्वय(४८निमेष) पर्यन्तमेकस्मिन् स्थाने समभावमादृत्य स्थिरतयोपवेशनं नाम नवमं सामयिकव्रतम् । एवं दशमं देशावकाशिकव्रतं, एकादशमं पौषधोपवासव्रतं चेति द्वे अपि व्रते सामायिकव्रततुल्य स्वरूपे एव स्तः । - अतिथिभ्योऽन्नादिकं देयमिति द्वादशममतिथिसंविभागं नाम व्रतमस्ति । एतानि सर्वाण्यपि द्वादश व्रतान्याचाररूपाणि सन्ति । तेषां पालनं हिंसाया विरमयति । अत एव महावीरभगवताऽऽचाररूपेण द्वादशव्रतानि निरूपितानि । एतेषु व्रतेषु जीवनविषयकाः सर्वा अपि प्रवृत्तयः समाविष्टा भवन्ति । एवं सर्वेषां जनानां हितायैते द्वे दृष्टी विशेषत उपकारिण्यौ स्तः । अतस्त्वमपि स्वजीवने विचारआचारदृष्टयोः पालनेनाऽहिंसाया विशेषत आराधनेन त्वरितमात्मकल्याणं साधय, इत्याशासे ।

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86