Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 34
________________ हिंसां प्रति प्रेरयति । अत एव वीरभगवता विचारदृष्टिरूपा स्याद्वाददृष्टिः प्ररूपिता । किञ्च - जैनधर्मो न कदाचिदपि प्रान्तवादे बद्धः, परं समग्रराष्ट्र प्रसृतोऽस्ति । जैनधर्मानुसारेण चतुर्विंशतिस्तीर्थकरा जाताः । तेषां सर्वेषामपि जन्मभूमिरन्या कर्मभूमिश्चाऽन्या, दीक्षास्थलमन्यद् निर्वाणस्थलं चाऽन्यदस्ति । एवं तैः सर्वदेशेषु विचरणं कृतं, न कुत्रचिदपि प्रतिबन्धो दर्शितः । कथमेवं कृतं तैः ? - इति प्रश्न उद्भवेदेव । तत्र कारणमेनदेव यत् – तैर्यो धर्मो निरूपितः स सर्वजनग्राह्यो धर्मोऽस्ति, तथा स 'निर्ग्रन्थधर्मः श्रमणधर्मश्चेति नाम्ना विख्यातः, न तु जैनधर्म इति । - रागस्य द्वेषस्य च ग्रन्थि यो विमञ्चति स निर्ग्रन्थः । - य उपशमभावं धरति स श्रमणः । - कर्मनाशार्थं यः परिश्राम्यति स श्रमणः । पश्य, वर्णजात्यादिभेदरहिततया यः कोऽपि जन एनं धर्ममाराधयितुं समर्थोऽस्ति । एवं सर्वेऽपि जैनागमास्तत्तज्जनपदप्रसिद्धप्राकृतभाषासु निबद्धाः । येन ते सर्वेषामपि ग्राह्याः स्युः। अद्य भाषां विषयीकृत्य जनाः क्लेशं कुर्वन्ति, परंतु तीर्थकरैः सर्वग्राह्यभाषाः स्वीकृत्य क्लेशो निवारित आसीत् । एवं वाचिकी कायिकी च हिंसे निवारिते । ___ एवं साहित्यक्षेत्रेऽपि श्रीमहावीरेण स्याद्वाददृष्टिरङ्गीकृता । जैनशास्त्रेष्वन्यदर्शनमान्यमहापुरुषाणां जीवनचरितं तथा तच्छास्त्राणां चोल्लेखा अपि प्राप्यन्ते । अन्यत्र यानि यानि पात्राणि कुत्सितरीत्याऽऽलेखितानि तानि पात्राण्यपि जैनशास्त्रेषु सादरमौचित्येन प्ररूपितानि । अहो ! कीदृशी उदारदृष्टिः । बन्धो ! एवमत्र न कस्यचिदपि मतस्य मतावलम्बिनां च तिरस्कारः कृतः । तस्मिन् काले भगवतो महावीरस्य पर्षदि भिन्न-भिन्नमतावलम्बिनः ३६३ तीथिकाः समागच्छन्ति स्म । तथाऽपि तेषां मध्ये क्लेशो नाऽऽसीत् । यतो वीरभगवता नैगमादीनां सप्तानां नयानामालम्बनेन सर्वेऽपि मतावलम्बिनः संगृहीताः। यद्येषा विचारदृष्टिः सर्वैः स्वीक्रियते तर्हि जातौ समाजे देशे च न कुत्राऽपि क्लेशः संभाव्येत । एषा दृष्टिः सर्वजनीना विश्वशान्तिकरी विश्वसंरक्षिका विश्वसंवर्धिका चाऽस्ति । द्वितीया दृष्टिरस्ति आचारदृष्टिः । हिंसाया अन्यदेकं कारणमस्ति अतृप्तिः असंयमश्च । एषाऽतृप्तिमहतोऽनर्थस्य निदानमस्ति । एतस्या अतप्तेनिरसनार्थं मनसो नियमनमतीवाऽऽवश्यकमस्ति । आत्मकल्याणं न केवलं बोधेन ज्ञानेन च, अपि त्वाचरणेन। भो ! ज्ञानस्य फलं विरतिः । विरतिर्नामाऽशुभकार्यस्य त्यागः । तदेव ज्ञानमुच्यते येन ज्ञानेनाऽकार्यस्य त्यागः स्यात् ।

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86