Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 32
________________ पत्रम् मुनिधर्मकीर्तिविजयः नमो नमः श्रीगुरुनेमिसूरये ।। आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । सगुरुवरं वयं सर्वेऽपि सातान्विताः स्मः । तवाऽपि कुशलं कामये । धंधुकानगरसमीपस्थ'तगडी'ग्रामे नन्दनवनतीर्थमध्ये सानन्दं विविधानि धर्मकार्याणि समाप्य खंभातनगरं वयमागच्छाम । भगवता महावीरेण श्रीआचाराङ्गसूत्रे सूत्रमेकं कथितं, तल्लक्ष्यीकृत्य किञ्चिद् लिखामि । सव्वे पाणा पियाउया सुहसाया, दुक्खपडिकूला अप्पियवहा । पियजीविणो जीविउकामा, सव्वेसि जीवियं पियं ।। (सर्वे प्राणिनः प्रियायुषः सुखसाताः दुःखप्रतिकूला: अप्रियवधाः । प्रियजीविनः जीवितुकामाः सर्वेषां जीवितं प्रियम् ।।) सर्वेषां प्राणिनामायुः प्रियमस्ति, सर्वेऽपि सुखमिच्छन्ति, न केभ्योऽपि दुःखं वधश्चाऽभिरोचते, सर्वेऽपि जीवितुमभिलषन्ति, एवं सर्वेषामपि जीवानां स्वकीयं जीवनं प्रियमस्ति - इत्युक्तं भगवता वर्धमानेन । एतदेव पूर्णाहिंसायाः स्वरूपनिरूपणमस्ति ।। बन्धो ! यदा दया, कारुण्यं, वात्सल्यं च विहाय भौतिकसुखार्थं यज्ञादिषु पशूनां हिंसा क्रियते स्म जनैस्तदा धर्मक्षेत्रे निर्दयताया हिंसायाश्चैव विशेषत: प्राधान्यं प्रसृतमासीत् । तादृशे काले ज्ञातपुत्रेण सिद्धार्थनन्दनेन श्रीवर्धमानमहावीरेण जनसमूहस्य नूना दिक् प्रदर्शिता । अहिंसा संयमस्तपश्चेत्यादिका ३२

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86