________________
पत्रम् मुनिधर्मकीर्तिविजयः
नमो नमः श्रीगुरुनेमिसूरये ।। आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु ।
सगुरुवरं वयं सर्वेऽपि सातान्विताः स्मः । तवाऽपि कुशलं कामये । धंधुकानगरसमीपस्थ'तगडी'ग्रामे नन्दनवनतीर्थमध्ये सानन्दं विविधानि धर्मकार्याणि समाप्य खंभातनगरं वयमागच्छाम । भगवता महावीरेण श्रीआचाराङ्गसूत्रे सूत्रमेकं कथितं, तल्लक्ष्यीकृत्य किञ्चिद् लिखामि ।
सव्वे पाणा पियाउया सुहसाया, दुक्खपडिकूला अप्पियवहा । पियजीविणो जीविउकामा, सव्वेसि जीवियं पियं ।। (सर्वे प्राणिनः प्रियायुषः सुखसाताः दुःखप्रतिकूला: अप्रियवधाः ।
प्रियजीविनः जीवितुकामाः सर्वेषां जीवितं प्रियम् ।।)
सर्वेषां प्राणिनामायुः प्रियमस्ति, सर्वेऽपि सुखमिच्छन्ति, न केभ्योऽपि दुःखं वधश्चाऽभिरोचते, सर्वेऽपि जीवितुमभिलषन्ति, एवं सर्वेषामपि जीवानां स्वकीयं जीवनं प्रियमस्ति - इत्युक्तं भगवता वर्धमानेन । एतदेव पूर्णाहिंसायाः स्वरूपनिरूपणमस्ति ।।
बन्धो ! यदा दया, कारुण्यं, वात्सल्यं च विहाय भौतिकसुखार्थं यज्ञादिषु पशूनां हिंसा क्रियते स्म जनैस्तदा धर्मक्षेत्रे निर्दयताया हिंसायाश्चैव विशेषत: प्राधान्यं प्रसृतमासीत् । तादृशे काले ज्ञातपुत्रेण सिद्धार्थनन्दनेन श्रीवर्धमानमहावीरेण जनसमूहस्य नूना दिक् प्रदर्शिता । अहिंसा संयमस्तपश्चेत्यादिका
३२