________________
(यद्यपि प्रकाशवेगमानतोऽधिकेन वेगेन गन्तुमशक्यमेव । किन्त्वयं नियमोऽन्तरिक्षे स्वयं गतिमतां पदार्थानां कृतेऽस्ति, स्वयमन्तरिक्षकृते नास्ति । अतोऽन्तरिक्षस्था आकाशगङ्गा प्रकाशवेगमानतोऽप्यधिकवेगेन गन्तुमर्हन्ति ।)
ब्रह्माण्डस्य पर्यवसानं विस्तारं वा ज्ञातुं या समस्या वर्तते साऽप्यनेनैव कारणेन । प्रकाशवेगमानमप्यतिक्रान्तानामाकाशगङ्गानां प्रकाशोऽस्माकं दृष्टिमर्यादायां नैव समागच्छति । अतः सर्वथा दूरवर्तिन्याकाशगङ्गा सम्प्रति कुत्र वर्तते, तत्कारणाच्च ब्रह्माण्डमपि कियद् विस्तीर्णं सञ्जातमिति तु ज्ञातुं सर्वथाऽशक्यमेव ।
यद्यपि खगोलविदोऽनुमिन्वन्ति यद् दृश्यब्रह्माण्डप्रमाणतुल्यमेवाऽदृश्यब्रह्माण्डमप्यस्ति (अर्थात् १३.७अर्बुदमितप्रकाशवर्षत्रिज्याप्रमाणमस्ति) । किन्तु तद्ध्यनुमानमेवाऽस्ति । साक्षात् तत्प्रमाणं तु न कदापि ज्ञास्यते । अतोऽन्येषामज्ञानानामिव तदप्यज्ञानमेव भविष्यति सार्वकालिकं विज्ञानस्य कृते ।
(विषयसङ्कलनं सौजन्यं च - गूर्जरभाषीया सफारीमासपत्रिका)
३१