________________
भविष्यत्यपि तज्ज्ञानस्य सम्भावना नास्त्येव । यतो यद्यपि मनुष्यमस्तिष्कं सङ्गणक(Computer) तुल्यमस्तीति प्रथ्यते तथाऽपि तस्य कार्य संरचना च न सङ्गणकतुल्ये । सङ्गणके सर्वमपि कार्यं केवलं On-off सङ्केतैरेव भवति परन्तु मस्तिष्के तथा भवदपि कोषैः प्रेषितानि यानि रसायनानि सन्ति तेषामेवाऽत्र कार्ये मुख्यभागो भवति । एतानि रसायनानि डायोमाइन-एन्डोर्फिन-सेरोटिनिन-इत्यादीनि दशाधिकानि सन्ति । एक एव कोष: समकालमेव बहूनि रसायनानि सम्प्रेषितुं समर्थोऽस्ति । ततश्च मस्तिष्के तेषां संयोजनानि अष्टशताधिकानि भवन्ति । एतेषां सर्वेषामपि कार्यप्रकारं ज्ञातुमवबोद्धं वा सर्वथाऽशक्यमेवेति विचाराणां समुद्भवः कथं भवतीति रहस्यं तु सर्वथाऽज्ञेयमेव भविष्यति ।
५. ब्रह्माण्डस्य पर्यवसानं कुत्रेति ज्ञातुं वयं न कदापि प्रभविष्यामो यतः ----- सततं विस्तीर्यमाणे ब्रह्माण्डे सर्वथा दूरवर्तिन्याकाशगङ्गा कियदूरं प्राप्तेति निर्णेतुं नैव शक्यमस्ति ।
पुरा किल दृष्टिपथगोचरतारकैः सीमितमेव ब्रह्माण्डमस्तीति जना मन्यन्ते स्म । किन्तु १६०९तमे ऐसवीये वर्षे यदा प्रथमस्य व्यावहारिकदूरवीक्षणयन्त्रस्या(telescope)ऽऽविष्कारो जातस्तदनन्तरं क्रमश आकाशदर्शकानां दृष्टिमर्यादा विस्तृता जाता ब्रह्माण्डस्य च समधिको विस्तारो दृष्टिगोचरोऽभवत् । विश्वसंरचना(Cosmology)क्षेत्रेऽभूतपूर्वा सीमाचिह्नस्वरूपा च घटना १९२०तमे वर्षे जाता यदा अमेरिकीयखगोलशास्त्रिणा एडविन हबलनाम्नाऽवलोकितं यत् – सर्वा अपि ब्रह्माण्डस्था आकाशगङ्गाः परस्परतो दूरं गच्छन्ति स्म, एतावदेव न, किन्तु दूरस्था आकाशगङ्गा निकटस्थिताभ्योऽधिकवेगेन दूरं गच्छन्ति स्म।
एतच्च विस्तरणं, फुल्लति फुद्ने स्थितानां शबलबिन्दूनां सदृशमस्तीति तेन प्रतिपादितम् । फुल्लनमानं हि फुद्ने यद्यपि सर्वत्र तुल्यमेव भवति तथाऽपि शबलबिन्दूनां दूरत्वं सर्वत्र तुल्यं न भवति । निकटस्थयोर्द्वयोबिन्द्वोर्दूरत्वस्याऽपेक्षया दूरस्थानां बिन्दूनां मध्येऽधिकमन्तरं भवति, ततश्च विस्तरणमपि तदनुसारमल्पमधिकं वा भवति ।
अनेनैव प्रकारेण ब्रह्माण्डस्थिता आकाशगङ्गा अपि परस्परमन्तरिताः सन्ति - इति एडविनहबलेन प्रतिपाद्य तेषां वेगं निर्णेतुमचलाङ्कोऽपि (Hubble Constant) तेनैव संशोध्य निरूपितः । अयमचलाङ्क: प्रतिक्षणमाकाशगङ्गाया वेगं दर्शयति । तन्मूल्यमस्ति ५५८ किलोमिटर-प्रमाणम् । अर्थाद् याऽऽकाशगङ्गा पृथिवीत एकमेगापार्सेकमिते दूरे वर्तते सा प्रतिक्षणं ५५८ किलोमिटरवेगेन ततो दूरं धावति । (१ पार्सेक (Parsec) = प्रायः ३.२६प्रकाशवर्षमितमन्तरम् । १ मेगापार्सेक (Megaparsec <Mpc>) = ३२,६०,००० प्रकाशवर्षमितमन्तरम् । अचलाङ्कानुसारं हि पृथिवीतो दशमेगापार्सेकमितदूरं याऽऽकाशगङ्गा वर्तते सा प्रतिक्षणं ५५८०किलोमिटरवेगेन धावन्ती तुल्ये कालमाने दशगुणितमन्तरं प्राप्नोति ।
महाविस्फोट(Big bang)स्याऽनन्तरं कोटिशो वर्षेशु अर्बुदश आकाशगङ्गा समुद्भूताः । तत्र च या आकाशगङ्गा प्रारम्भे समुद्भूतास्तास्त्वद्य बहुदूरं प्राप्ताः सन्ति । तासां वेगः प्रकाशवेगमपि समतिक्रान्तोऽस्ति । ★ जैनदर्शने मनोवर्गणायाः पुद्गलान् गृहीत्वा जीवो विचाररूपेण प्रवाहयति(मुञ्चति) - इति स्पष्टं निरूपितमस्ति ।
३०