Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पुरुषार्थमूलोपासना निरूपिता । एतस्या आराधनेनाऽऽत्मनः कल्याणं कुर्वन्तु - इत्युक्तं च । धर्मः केवलं व्यक्तिगतमाचरणं न, अपि तु सामाजिकावश्यकता तथा समाजव्यवस्थायाः प्रधानमङ्गमस्ति । ततो धर्मोन्नत्यर्थं क्रियायुक्ता नूत्ना दृष्टिरावश्यकी अस्तीति देशितं च ।
तस्मिन् काले समाजे धनिको निर्धनश्चेति वर्गद्वयं विद्यमानमासीत् । धनिका निर्धनजनान् शोषयन्ति स्म । ततो धनार्जनं कर्तुं यत् किमपि कुर्वन्ति स्म ते जनाः । तथैव समाजे ब्राह्मणो वैश्यः क्षत्रियः शूद्रश्चेति वर्णव्यवस्था विद्यमानाऽऽसीत् । किन्तु सा कालक्रमेण रूढित्वेन परावर्तिता जाता । ततोऽमुककुले जाता उत्तमाः, अन्यत्र जातास्त्वधमाः । एवं नारी दुर्बलोपेक्षणीया चेति मन्यन्ते स्म ते । एतादृशे काले वीरभगवता निर्भीकतया शूद्रादिकुलेषु जातास्तथा नार्यश्चाऽपि प्रव्राजिताः । तेषामपि धर्मस्य मोक्षस्य चाऽधिकारोऽस्ति, इति निरूपितम् । यतो जनो न जन्मनाऽपि तु कर्मणा ब्राह्मणो वैश्यः शूद्रो वाऽस्ति । एवं भगवता नवीना दृष्टिरुद्घाटिता ।
बन्धो ! वीरभगवता मुख्यतो द्वे दृष्टी प्ररूपिते । यतोऽत्र द्वयोर्दृष्टयोरन्तर्गतमेव जिनशासनस्य सर्वमपि ज्ञेयं समाविष्टं भवति । एका विचारदृष्टिः, द्वितीयाऽऽचारदृष्टिश्च । अत्र - विचारदृष्टि म स्याद्वाददृष्टिः, तन्नामाऽनेकान्तवादः ।
आचारदृष्टि म यथार्हव्रतपालनम् ।
तत्र प्रथमं विचारदृष्टिं विचारयामः । अहिंसा जैनधर्मस्य मूलमस्ति । तां विना जैनदर्शनस्याऽस्तित्वमसम्भावनीयम् । कस्मैचिदपि न दुःखं देयं, न च कोऽपि पीडनीयः - इत्येषाऽहिंसा तु स्थूलस्वरूपा । परमत्र तु सूक्ष्माऽहिंसाऽपि वर्णिता । कायिक्या अहिंसाया यावन्महत्त्वं तावदेव वाचिक्या मानसिक्याश्चाऽहिंसाया अपि प्राधान्यमस्ति । अत एव कस्यचिदप्यशुभं भवेत्तादृशं कथनं वाचिकी हिंसा, तथैवाऽशुभं चिन्तनं मानसिकी हिंसा च प्रोक्ता ।
एतस्या अहिंसाया विशेषतः पालनार्थं भगवता स्याद्वाददृष्टिराविष्कृता । अत्र दृष्टौ न कस्यचिदपि विरोधोऽस्ति, सर्वेषामपि विविधापेक्षया स्वीकारोऽस्ति । यथा – एको घटो मृद्रव्यापेक्षयाऽस्ति, किन्तु सुवर्णद्रव्यापेक्षया नास्ति । एवमेको मृद्घटोऽपि अहमदाबादक्षेत्रापेक्षया विद्यमानोऽस्ति, किन्तु वटपद्रक्षेत्रापेक्षया नास्ति । द्वादशघण्टावादनापेक्षया घटोऽस्ति, किन्तु षड्घण्टावादनापेक्षया नास्ति । एवंरीत्या कस्याऽपि वस्तुनः स्वीकारोऽस्वीकारश्च कर्तुं शक्यः स्याद्वाददृष्ट्यैतया । एषा विभावनाऽत्रैव प्राप्यते, नाऽन्यत्र कुत्रचिदपि । अत एव न कोऽपि प्रतिवादं कर्तुं शक्तो जैनदर्शनेन सह ।
चेतन ! जीवा अनन्ताः सन्ति । सर्वेष्वपि जीवेषु आत्मसादृश्यमस्ति । तथाऽपि संस्कारेण कर्मणा बाह्यपरिस्थित्या चाऽऽचार-विचारेषु वैषम्यं दृश्यते एव । यद्येकस्यैव मानवस्याऽपि द्रव्य-क्षेत्रकालादिभेदैराचार-विचारेषु भिन्नता प्रवर्तेत तर्हि भिन्न-भिन्नानां मानवानामाचार-विचारेषु विसदृशता कथं न भवेत् ? एवंस्थिते एकस्यैव कथनं वस्तूनां वा निश्चयेन ग्रहणं केवलं दुराग्रह एव भवति । दुराग्रहस्तु
३३

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86