Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 28
________________ ३. ब्रह्माण्डं यतः समुद्भूतं स महाविस्फोटः (Big bang) कथं जात-इत्यस्य ज्ञानमस्माकं न कदापि भविष्यति यतः ----- महाविस्फोटात् पूर्वतनी परिस्थितिरवलोकयितुं सर्वथाऽशक्या । इदानीं ब्रह्माण्डं येन पदार्थेन विनिर्मितमस्ति तस्याऽमेयस्य पदार्थस्याऽणुमात्रस्याऽपि महाविस्फोटात् पूर्वमस्तित्वमेव नाऽऽसीत् । अद्य ब्रह्माण्डं सञ्चालयन्त्यो विद्युच्चुम्बकत्वशक्तिर्गुरुत्वाकर्षणशक्तिर्दृढा शक्तिरदृढा शक्तिश्चेति (Strong force and Weak force) चत्वारि प्राकृतिकबलानि तदानी नाऽविद्यन्त, तेभ्यो विना च ब्रह्माण्डस्यैवाऽसम्भवः स्यात् । तथा, आइनस्टाइन-मतानुसारं तु महाविस्फोटात् पूर्वमवकाशः (Space) समय(time)श्चाऽपि नाऽविद्येताम् । अवकाशस्य मानं शून्यमासीत् समयश्चाऽपि शून्ये एव स्थगित आसीत् । केवलमनन्तसूक्ष्मतारूपबिन्दोरेवा(infinite singularity)ऽस्तित्वमासीत् । दुर्बोधं किलैतत् - कथङ्कारं सूक्ष्मोऽयं बिन्दुर्बह्माण्डत्वेन परावर्तितः खल्विति । महाविस्फोटात् पूर्वं त्वणुमात्रमपि नाऽऽसीदिति तूक्तमेव ननु ! पदार्थस्याऽनस्तित्वमेव सर्वथा ! किन्त्विदानी ब्रह्माण्डे अर्बुदश आकाशगङ्गाः ! प्रत्येकमाकाशगङ्गायामपि प्रायोऽर्बदशतमितानि तारकाणि ! पदार्थस्य मानमेव नास्ति खलु ! पदार्थस्य सर्जनं हि सदाऽपि प्रतिनियतशक्तिभिरेव भवति । यदि महाविस्फोटात् पूर्वं चत्वारि प्राकृतिकबलान्येव नाऽऽसंस्तदा महाविस्फोटस्य तस्य भवने के वा सिद्धान्ताः कारणीभूताः ? प्रश्नोऽयं सदाऽप्यनुत्तरित एव स्थास्यति । निष्णातैर्यद्यपि प्रश्नमेनं समाधातुमनुमानद्वयं विहितमस्ति तथाऽपि तेन पूर्ण समाधानं नैव भवति । पश्यामस्तावत् – प्रथमं हि, यदाऽस्माकं ब्रह्माण्डात् पूर्वतनं ब्रह्माण्डं भूरिविस्तरणानन्तरं सङ्कोचितुमारब्धं तदा गुरुत्वाकर्षणबलेन तस्य समस्तमपि द्रव्यं समकेन्द्रबिन्दु प्रति प्रणुन्नम् । द्रव्यसङ्कोचस्य सततं जायमानत्वादुष्णतामानमपि प्रवृद्धम् । अतो गच्छता कालेन महानिष्पेषस्य (Big Crunch) स्थितिरुत्पन्ना । ब्रह्माण्डमिदानीं केवलं बिन्दुरूपमेवाऽऽसीत् । क्रमशो वर्धमानेनोष्णतामानेन केन्द्रत्यागि बलं तथा वधितं यथां बिन्दुरयं विस्फोटं प्रति प्रगुणो जातः । यद्यपि गुरुत्वाकर्षणबलेन स सर्वथा प्रतिरुद्ध आसीत् तथाऽपि केन्द्रत्यागिबलस्याऽऽधिक्यात् महाविस्फोटो जात एव, ब्रह्माण्डं च पुनरपि विस्तरीतुमारब्धम् । एतच्च ब्रह्माण्डमस्माकमासीत् । । यद्यपि ताकिकमिदमनुमानं, तथाऽपि, एतस्य स्वीकारानन्तरमपि प्रश्नोऽयमुत्तिष्ठते यदस्माकं ब्रह्माण्डात् पूर्वतनं ब्रह्माण्डं जनयितुं जातो महाविस्फोटः कथङ्कारं समुद्भूतः खलु ? अनवस्थैवाऽत्र स्यात् ! तस्या निवारणार्थं निष्णातैद्वितीयमनमानं कतम । परिमाणसिद्धान्तानुसारं (Ouantum theory) बहव्यो घटनाः स्वयमेव निष्कारणं जायन्ते, पदार्थस्य च स्वयमेव प्रकटीभवनमपि सुशकमेव । शून्यावकाशादपि पदार्थकणाः स्वयमेव प्रकटीभूताः सन्ति प्रयोगेषु । अतोऽत्राऽपि निष्णाता अनुमिन्वन्ति यद् ब्रह्माण्डं शून्यावकाशे स्वयमेव सञ्जातेन महाविस्फोटेन सृष्टं स्यादिति । __ किन्त्वेतदपि खल्वनुमानमेवाऽस्ति । इतः १३.७ अर्बुदमितवर्षेभ्यः पूर्वं महाविस्फोटो जातस्तस्मात् ★ जैनदर्शनानुसारं तु जगदिदमनाद्यनिधनमेवाऽस्ति । अतस्तस्य सृष्टिविनाशो वा नैव जायते कदाचिदपि । २८

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86