Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अथ, तथाऽपि केचन विषयास्तादृशा अपि सन्ति ये अद्यापि अज्ञानसीमानमुल्लङ्गितुमशक्ताः सन्तो विज्ञानक्षेत्रमप्राप्ता एव । के ते विषयाः - इति जिज्ञासायाः शमनात् पूर्वमज्ञानस्य द्वौ भेदौ विचारयामस्तावत् प्रथमम् ।
यस्य कस्यचिद् विषयस्य रहस्यं कल्पितुमवगन्तुं वाऽस्माभिर्यदि प्रयत्न एव न कृतः स्यात् कदाऽपि, तदा तद्विषयकमज्ञानमेवाऽस्माकं भवेत् । यथा, चिम्पान्झी वानरः कदाऽपि तज्ज्ञातुं नैव प्रयतते यन्महास्फोटेन (Big Bang) ब्रह्माण्डस्याऽऽविष्कारः कथं जातः - इति । यतः स ब्रह्माण्डं नाम किमित्येव न जानाति । एषोऽस्त्यज्ञानस्य प्रथमो भेदः । अत्र प्रकरणे तादृशस्याऽज्ञानस्य विचारणं नास्ति किन्तु येषां विषये बहुभिर्बहुशो विचारणं कृतं स्यादथाऽपि तेषां रहस्यं न कदाऽप्यवगतं नाऽपि कदाचिदवगमिष्यते च तादृशस्याऽज्ञानस्य विचारणमस्ति । कानिचनैवोदाहरणानि विचारयामः -
१. अस्माकमाकाशगङ्गायां (Galaxy) यः केन्द्रस्थित कृष्णगों (Black hole) विद्यते तस्य साक्षात्कारं कर्तुं वयं सर्वथाऽसमर्थाः यतः ---- स गर्तो घनावरणान्तरितो वर्तते । विस्तरेण विचारयामस्तावत् – विराटस्याऽस्य कृष्णगर्तस्य दलमानं खगोलविदामभिप्रायेण पञ्चविंशतिलक्षसूर्याणां दलमानतुल्यमस्ति, आकारमानं च प्रायः ५८लक्षकिलोमीटरमितमस्ति (सूर्य-बुधयोरन्तरालस्य दशमांशतुल्यम्) । एतस्मिन् क्षेत्रे तस्य गुरुत्वाकर्षणं तथा प्रबलं यथा ततः प्रकाशस्यैकः किरणोऽपि बहिनिष्क्रान्तुं न शक्नोति । निकषा स्थिता या काऽपि तारा तत्प्रभावच्छायां प्राप्ता न ततो निर्गन्तुं शक्ता । कृष्णगर्तस्तस्या वायुं भक्षयित्वा क्रमशः समग्रामपि तां स्वकुक्षिसात् करोति ।
अत्रैतावान् विशेषो यत् – कृष्णगर्तस्य निवर्तननिषेधबिन्दुरूपं (Point of no return) यद् घटनाक्षितिजं (event horizon) तदतिक्रम्याऽपि तारा सम्पूर्णतया न तत्र निमज्जति किन्तु तस्याः कियानपि वायुः कृष्णगर्तस्योत्तर-दक्षिणध्रुवयोरतिबलवतीभिश्चुम्बकीयरेखाभिर्निगृह्य प्रकाशमानविद्युत्कणेषु परावर्त्यते प्रपातरूपेण च दूरं प्रक्षिप्यते । कृष्णगर्तो ह्यस्माकं दृष्टिगोचरो न कदाऽपि भवति, किन्तु लक्षशः किलोमिटर्-मितावेतौ द्वावपि प्रपातौ परमतेजस्विनौ स्तः । अतः कृष्णगर्तस्य पृथिव्याः षड्विंशतिसहस्र(२६०००)प्रकाशवर्षाणि दूरत्वेऽपि रात्रौ वयं तं पौर्णमासीयचन्द्रादप्यधिकतया प्रकाशमानं द्रष्टुं शक्नुयाम । किन्तु दुर्भाग्यमस्माकं यद् वयं तद् दृश्यं द्रष्टुं नैव शक्ताः, यतो धनूराशेः (Sagittarrius) दिशि विद्यमानः कृष्णगों वायुकणानां रजःकणानां च द्वादशसहस्र(१२०००)प्रकाशवर्षमितेन घनावरणेनाऽन्तरितोऽस्ति । ततश्च द्वयोरपि प्रपातयोः प्रकाशकिरणानां तमावरणं भित्त्वा निर्गन्तुं शक्यतैव नाऽस्ति ।
नासासंस्थाया 'हबल' दूरवीक्षणयन्त्रेण(Telescope) दूरवर्तिनीनामन्यासामाकाशगङ्गानां कृष्णगर्ताश्छायाचित्रत्वेन गृहीताः सन्ति, किन्त्वस्माकं ब्रह्माण्डस्याऽऽकाशगङ्गायाः केन्द्रं 'विलोकयितुं' न शक्तं तत् । हबलयन्त्रेण NGC 4261 - इत्यभिज्ञानेन प्रसिद्धाया आकाशगङ्गायाः कृष्णगर्तस्य प्रायशः ४०० प्रकाशवर्षमितं दलमुत्तर-दक्षिणध्रुवीयप्रपातौ च छायाचित्रत्वेन सगृहीताः । एतद् दृष्ट्वैव खगोलविद्भिस्तस्य कृष्णगर्तस्य दलं १२००कोटिमितसूर्याणां दलस्य तुल्यं स्यादिति निर्णीतम् ।
२६

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86