Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
समीरः स्तब्ध आसीत् । यतोऽस्या धराया भास्कर-शशिनौ युगपदस्तं गताविव जातौ ।
हे त्रिभुवननाथ ! रे त्रिलोकगुरो ! हे सकलजनवन्ध ! हे देवेन्द्रवन्दित ! हे नर-नरेन्द्रपूजित ! हे सकलजनहितचिन्तक ! अये प्रभो ! मम नाथ ! भवतेदं किं कृतम् ?
कोऽस्मादृशान् प्राणिनः पवित्रीकरिष्यति ? आत्मारामे स्फुरितगुणपुष्पाणि लुञ्चितुमुद्यतान् कर्मशलभान् को दूरीकष्यिति?
हे अशरणशरण्य ! अनादिकालात् भववने भ्रमतोऽस्मादृशान् क्रोधादिवन्यपशुभ्यः को रक्षिष्यति ? भो नाविक ! भवाब्धिमध्ये मम नावं कस्तारयिष्यत्यधुना ? हे रक्षणकारक ! विषयलुण्टाकैलृप्यमानमात्मधनं को रक्षिष्यति ?
भो दीपक ! मुक्तिसदनं प्रति गमनोद्यतं मिथ्यात्वतमसा संसारगर्तायां पतन्तं मां ज्ञानदीपेन को वारयिष्यति?
रे विधातः ! त्वयेदं किं चिन्तितं ? बुभुक्षिताय घृतमिश्रितं मिष्टान्नं दत्वाऽऽकृष्टं ? भवतो मयैतादृशः कोऽपराधः कृतो येनाऽहं दूरीकृतः ?
हे सूर्यदेव ! किं तव प्रतापेऽल्पताऽऽगता यदस्माकं स्वामिनस्तेजोपहृतम् ?
[३]
हे चन्द्र ! किं तव सौम्यता नष्टा ? यदस्माकं सौम्यनिधिः परमात्मा हृतः । हे चन्द्र ! किं तव शीतलताऽग्नौ दग्धा ? यदस्माकं शीतोदधिस्त्वया धृतः ?
हे पद्म ! किं तव सुगन्धो नष्टो यदस्माकं पुष्पाङ्गिन: श्वाससुरभिः गृहीतः ?
हे सागर ! किं तव गाम्भीर्यं कलङ्कितं यद् गाम्भीर्याद्यनेकगुणालङ्कृतस्याऽस्मन्महोपकारिणो दर्शनं दुर्लभं कृतम् ?
हे शिववध ! अनन्तजनैविवाहितयाऽप्यस्मन्निस्तारकं विना क्षणमपि धीरता न धारिता ?
भो सार्थवाह ! हे प्रभो ! आगच्छ आगच्छ, हृदयगिरौ वासं कुरु कुरु । मनोमन्दिरे तिष्ठ तिष्ठ । मुक्तेनिर्मलपथं दर्शय दर्शय । हे दयानिधे ! कृपां कुरु दयां कुरुं, दयां कुरु ।
मत्सदृशस्य बालकस्य नम्रां विज्ञप्तिं शृणु शृणु । निर्बन्धं गृह्यतां गृह्यतां, अथ त्वां न मुञ्चामि न मुञ्चामि न त्यजामि, न त्यजामि ।
C/o. सोहनराजजी तालेडा
महेन्द्र ज्वेलर्स पीलप्पालेन, चंपकहाउस २४/२
नगरथपेट, बेंग्लोर ५६०००२
२४

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86