Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 27
________________ एतद्विपरीततयाऽस्माकमाकाशगङ्गायाः कृष्णगर्तस्य सर्वमपि ज्ञानमनुमानादेव लभ्यम् । तस्य साक्षात्कारे आवरणस्याऽन्तरायत्वात् । एवं च स्थिते वयं कदाऽपि तस्य तथ्यं स्वरूपं ज्ञातुं नैव शक्ता इति निश्चप्रचम् । फलतश्च विज्ञानस्याऽप्यत्र सर्वदा सर्वकालं चाऽज्ञानमेव । २. अस्यां पृथिव्यां कथं समुद्भूतं जीवनमैदम्प्राथम्येन - इति ज्ञातुं वयं सर्वथाऽशक्ताः । यतः -- प्राथम्येन ये जीवा जातास्तेषामुत्पत्तिविषयकाणि सर्वथाऽनिवार्याणि प्रमाणानि विनष्टानि सन्ति । निष्णातानां मतानुसारं हाइड्रोजन-कार्बन-नाइट्रोजन-हिलियम-ऑक्सिजन-निओनेति षड्भिस्तत्त्वैर्जगतः सर्जनं कृतम् । अद्य हि सर्वेषु जीवशरीरेषु ब्रह्माण्डे चाऽपि सर्वत्र ९८% तान्येव तत्त्वानि सन्तीति निष्णातानां मतमविरुद्ध प्रतिभाति । एवं सत्यपि तानि तत्त्वानि सेन्द्रियाणि (organic) न सन्ति परन्तु प्रत्येकं जीविनां शारीरिककोषास्तु सेन्द्रियपदार्थनिर्मिताः सन्ति । अतः प्रश्नोऽयमुत्तिष्ठते यत् निर्जीव(inorganic)-तत्त्वानि जीवत्कोषत्वेन कथं वा परावर्तितानीति । आमूलमिदं परावर्तनं कर्तुं काचिच्छक्तिस्त्वावश्यक्येव नियमात् । एतन्नियमं मनसिकृत्य जीवोत्पत्तेः प्रथमं सिद्धान्तं रशियादेशीयो जीवरसायनशास्त्री एलेक्झाण्डरओपारिनः प्रस्तुतवान् । १९२२तमे ऐसवीये संवति स कथितवान् यत् – “पृथिव्या आदिकाले वातावरणे विलसन्तो हाइड्रोजन-कार्बनप्रमुखतत्त्वानां रेणव आकाशीयविद्युता सूर्यस्य च नीललोहितकिरणैः सेन्द्रियत्वेन परावर्तिताः । ततश्च ते रेणवो यदा समुद्रस्य सोष्मजले सम्मीलिताः सन्तः परस्परं तथा सङ्घटिता: क्वचित् कथञ्चिच्च, यथा तेषां तद् विशिष्टं सङ्कटनं सजीवकोषरूपेण परिणतम् । तत्र च सङ्कटने मुख्यघटकानि ओजोद्रव्य(protein)स्थमेमिनो-अम्लं (Amino acid), RNA - DNA इत्यनयोश्चत्वारि मूलद्रव्याणि, कोषरचनार्थं चोपयुक्तं मेद आसन्" । सिद्धान्तमेनं प्रमाणयितं १९५० तमे संवति अमेरिकीयरसायणशास्त्रिणा स्टेनलीमिलर-इत्यनेन प्रयोगः कृतः । तेनैकस्मिन् बृहदाकारे काचभाजने आदिकालीन-पृथिवीसदृशं वातावरणं सृष्टम् । ततो विद्युद्दण्डेन तदन्तविद्युत्स्फुलिङ्गानि वर्षितानि । सप्ताहानन्तरं किञ्चित् साफल्यं तेन प्राप्तम् । कार्बन-तत्त्वस्य पञ्च प्रतिशतं(५%) प्रायो दलमोजोद्रव्यघटक-एमिनोएसिडद्रव्यत्वेन परिणतम् । किन्तु तत्पुनः ओजोद्रव्यत्वेन न परिणतमतो जीवत्कोषस्याऽपि सर्जनं नैव जातम् ।। ततो मिलरः केनचित् पृष्टो यत् – 'सजीवकोषसर्जने कियान् काल आवश्यकः?' तेनोक्तं - 'दश वर्षाणि अपर्याप्तानि, शतमप्यपर्याप्तानि । लक्षं वर्षाणि प्रतीक्षितुं धैर्यं यदि स्यात् तदा वरम् । दशलक्षवर्षैरपि यदि तत् सर्जनं न जायेत तहि निश्चयेन तत् कदापि न भविष्यति !' इति । किञ्च, प्रारम्भिकजीवकोषान् विरचयितुं ये सेन्द्रियपदार्था विशिष्टसङ्घटनत्वेन मिलिता आसन् तेषां कवचरूपमस्थिरूपं वा कठिनमङ्गं नाऽऽसीदतस्ते पृथ्व्यां विलीना जाताः । न केऽप्यवशेषास्तेषां कुत्राऽपि प्राप्यन्तेऽतस्ते जीवकोषाः कथं समुद्भता इत्येतदपि ज्ञातुं सर्वथाऽशक्यमेव । ★ एतत् तु विज्ञानस्य मतम् । भारतीयदर्शनानां मतेन विशेषतस्तु जैनदर्शनमतेन जीवः सार्वकालिक एव । शरीराणि तु परावर्तन्ते । अतो जीवः कथं समुद्भूत ऐदम्प्राथम्येन - इत्येषा समस्या विज्ञानस्यैव, न त्वस्माकम् । २७

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86