Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 14
________________ मुक्तक-काव्य-त्रयी देवर्षिकलानाथशास्त्री [संस्कृतभाषासाहित्यजगतो मूर्धन्यो विद्वान् साहित्यकारः काव्यकलाकुशलश्च श्रीदेवर्षिकलानाथशास्त्रिमहोदयः साहित्यसेवया सुविश्रुतोऽस्ति । राष्ट्रपतिसम्मानितः प्राप्तकालिदाससम्मानश्चाऽसौ विद्वद्वर्योऽधुना जगद्गुरु-रामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालये आधुनिकसंस्कृतपीठस्याऽध्यक्षत्वं, भारतीसंस्कृतमासपत्रिकायाः प्रधानसम्पादकत्वं च निर्वहति । पुराऽपि चाऽनेन विदुषा राजस्थानसंस्कृतअकादम्या अध्यक्षत्वं राजस्थानशासने संस्कृतशिक्षा-भाषाविभागयोनिर्देशकत्वं च निर्वोढमस्ति ।] (१) ईतयो भीतयश्च प्रतिवर्षं ज्यौतिषिका वर्षफलं घोषयन्ति पञ्चाङ्गैः । तस्य हि वर्षस्य च ते भीतीरीतीस्तथा विवृण्वन्ते ॥१॥ अतिवृष्टिरनावृष्टिः, शलभा वा ईतयो निगद्यन्ते । भूकम्पा व्युत्पादा भीतिपदेनैभित्र वर्ण्यन्ते ॥२॥ देशेऽस्मिन् वस्तुतया प्रसूता या ईतयश्च भीतिश्च । हन्त ! मनागपि तासां चर्चा क्रियते न दुष्टदैवज्ञैः ॥३॥ भीतयः आमूलादाशिखरं प्रशासने, राजनीतिषु, न्याये । सर्वत्र प्रसृतोऽयं भ्रष्टाचारो महत्तमा भीतिः ॥४॥ जनसञ्चारसरणिभिर्वार्तापत्रैश्च सूचनाधारैः । प्रतिदिनेमेते भ्रष्टाचारा जनसम्मुखं निपात्यन्ते ॥५॥ १४

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86