________________
मुक्तक-काव्य-त्रयी देवर्षिकलानाथशास्त्री
[संस्कृतभाषासाहित्यजगतो मूर्धन्यो विद्वान् साहित्यकारः काव्यकलाकुशलश्च श्रीदेवर्षिकलानाथशास्त्रिमहोदयः साहित्यसेवया सुविश्रुतोऽस्ति । राष्ट्रपतिसम्मानितः प्राप्तकालिदाससम्मानश्चाऽसौ विद्वद्वर्योऽधुना जगद्गुरु-रामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालये आधुनिकसंस्कृतपीठस्याऽध्यक्षत्वं, भारतीसंस्कृतमासपत्रिकायाः प्रधानसम्पादकत्वं च निर्वहति । पुराऽपि चाऽनेन विदुषा राजस्थानसंस्कृतअकादम्या अध्यक्षत्वं राजस्थानशासने संस्कृतशिक्षा-भाषाविभागयोनिर्देशकत्वं च निर्वोढमस्ति ।]
(१)
ईतयो भीतयश्च प्रतिवर्षं ज्यौतिषिका वर्षफलं घोषयन्ति पञ्चाङ्गैः । तस्य हि वर्षस्य च ते भीतीरीतीस्तथा विवृण्वन्ते ॥१॥ अतिवृष्टिरनावृष्टिः, शलभा वा ईतयो निगद्यन्ते । भूकम्पा व्युत्पादा भीतिपदेनैभित्र वर्ण्यन्ते ॥२॥ देशेऽस्मिन् वस्तुतया प्रसूता या ईतयश्च भीतिश्च । हन्त ! मनागपि तासां चर्चा क्रियते न दुष्टदैवज्ञैः ॥३॥
भीतयः आमूलादाशिखरं प्रशासने, राजनीतिषु, न्याये । सर्वत्र प्रसृतोऽयं भ्रष्टाचारो महत्तमा भीतिः ॥४॥ जनसञ्चारसरणिभिर्वार्तापत्रैश्च सूचनाधारैः । प्रतिदिनेमेते भ्रष्टाचारा जनसम्मुखं निपात्यन्ते ॥५॥
१४