________________
यदा यदा हि धर्मस्य हानि जानाति माधवः । तदा तदाऽवतारं स गृह्णाति धर्मरक्षणे ॥८॥ स सत्योऽस्ति परमात्मा यो वसति सदाऽऽत्मसु । स एवाऽस्ति सर्वव्यापी चरेऽचरे कणे कणे ॥९॥ बहूनि यस्य नामानि स्वभुर्नारायणस्तथा । दैत्यारि: पुण्डरीकाक्षो वैकुण्ठो विष्टरश्रवाः ॥१०॥ दामोदरो हृषीकेशः केशवो माधवः प्रभुः । पीताम्बरोऽच्युतः शार्गी विष्वक्सेनस्त्रिविक्रमः ॥११॥ पद्मनाभश्चक्रपाणिर्गोविन्दश्च मधोः रिपुः । देवकीनन्दनः शौरि: श्रीपतिः कुशलात्मजः ॥१२॥ वनमाली बलिध्वंसी कंसारातिरधोक्षजः । रावणारि: कैटभजिद्विधुः श्रीवत्सलाञ्छनः ॥१३॥ इन्द्रानुजाय वै तस्मै नमः समुद्रशायिने । उपेन्द्राय मुकुन्दाय नमोऽस्तु चक्रपाणये ॥१४॥ भारत उत्तरप्रदेश एटाजनपद-सोरोवासी,
काव्यकथोपन्यासरचयिता शूकरक्षेत्रविलासी । होतीलालकलावतीसूनू रामकिशोरमिश्र इति,
विद्यावाचस्पतिपदधारी विष्णुचरितं समालिखति ॥१६॥
२९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २५०१०१
दूरभाष: ०१२१२२३३५२७