________________
OR
ज
श्रीविष्णुचरितम्
डॉ. आचार्यरामकिशोरमिश्रः
शङ्गचक्रगदापद्मधारी विष्णुश्चतुर्भुजः।। ईशत्रिमूर्तिष्वेकः स युष्मान पातु रमापतिः ॥१॥
समुद्रमन्थनाज्जाता लक्ष्मीलब्धा हि विष्णुना । धनं ददातु सा प्राज्यं युष्मभ्यं जीवने सदा ॥२॥ भुजङ्गशेषशय्यायां शेते स क्षीरसागरे । मालां दधाति कण्ठे यो वक्षसि कौस्तुभं मणिम् ॥३॥ याति गरुडमारुह्य इतस्ततः स सर्वतः ।। भक्तिवशीकूतो भक्तान् रक्षति गरुडध्वजः ॥४॥ दुर्वाससः पदाघातः शोभते यस्य वक्षसि । सहिष्णवे च बलिने तस्मै श्रीविष्णवे नमः ॥५॥ रामो भूत्वा च त्रेतायां कौशल्यानन्दवर्धनः । लङ्कां गत्वा स कपिभिर्जघान रावणं क्रुधा ॥६॥ द्वापरे चाऽत्र देवक्या गर्भाज्जातः सुदर्शनः । वासुदेवः स श्रीकृष्णो हि कंसं जघान मातुलम् ॥७॥
१२