________________
आत्माऽस्ति कामधेनुः सा सर्वेच्छापूरणी सदा । सुखदो भोगदः सोऽस्ति यशस्करोऽपि सर्वदा ॥८॥
नास्ति दयासमो धर्मो न दानं करुणासमम् । नास्ति सत्यसमा कीर्तिः शृङ्गारो नास्ति शीलवत् ॥९॥ यस्याऽऽत्मशक्तिः संसारे प्रबला भवतीश्वरी । स लोके संकटापन्नो भयभीतो भवेन्नहि ॥१०॥ सर्वमित्रं स सन्मार्गी हितैषी प्राणिनां तथा । संयमी च सदाचारी तपस्त्यागरतः सदा ॥११॥
यस्मिन् शूकरक्षेत्रे जातः कविवरतुलसीदासः
आत्मरामहुलसीतनयो यस्तन्नगरे सुनिवासः । होतीलालकलावतीसूनू रामकिशोरमिश्र इति,
काव्यकथोपन्यासरचयिता महावीरचरितं लिखति ॥१३॥