________________
श्रीभगवन्महावीरचरितम्
डॉ. आचार्यरामकिशोरमिश्रः
भगवान श्रीमहावीरस्त्रिशलातनयो महान् । परोपकारी धर्मात्मा जैनधर्मसुधारकः ॥१॥
तपस्वी संयमी धीमान क्षमाशीलस्त्वहिंसकः । सम्यग्ज्ञानी च शुद्धात्मा सम्यग्द्रष्टा सुदर्शनः ॥२॥ सम्यक्चरित्रस्त्वद्वेषी विरागी मोहहारकः । अलोभी मदहीनश्च विकारविजयी तथा ॥३॥ 'य आत्मा स परमात्मा' ज्ञानमित्थं ददाति यः । कूत्वा सत्कर्म नित्यं स संसारेऽस्मिन्महीयते ॥४॥ प्राणिषु प्रभुसन्दर्शी निरहङ्कारवीर्यवान् । सर्वाकाङ्क्षाविहीनं तं मनसा वै नमाम्यहम् ॥५॥ अहिंसया च तपसा क्षमया संयमेन च । स्वाध्यायेन जीवात्मा शुद्धो भवति सोऽब्रवीत् ॥६॥ आत्माऽस्ति वै नरकस्था वैतरणी नदी सदा । सर्वकामकर: सोऽस्ति स्वर्गस्थं नन्दनं वनम् ॥७॥
१०