________________
अथ चतुर्विंशत्यक्षरचरणं संकूत्यां किरीटवृत्तम् देवकिरीटमणिप्रकरप्रतिरञ्जितपादसरोजयुगं तव भातु सदा मम चेतसि देवविकीर्णसरोरुहचारि सुखाकर ! । यत्र विभाति नखावलिरीश्वर ! पद्ममणिप्रकरप्रतिमाङ्गुलिमस्तकराजिसुधाकरबिम्बसमा शमनिज्जितदोषरिपव्रज ! ॥३७॥
अथ चण्डवृष्टिप्रपातनामा सप्तविंशत्यक्षरचरणो दण्डकः पठ्यते जय जय सुरयक्षविद्याधराधीशमादिभिः सङ्कुले सर्वशोभाकरे समवसरणभूमिभागे यथावत्समावेशितानेकलोकाकुलेऽतिप्रभे। मणिकनकविचित्रचञ्चत्प्रभाहारिसिंहासनाध्यासिनो देशना देव! ते त्रिभुवनततकाममोहादिघोरानलोज्झासने चण्डवृष्टिप्रपातायते ॥३८॥
इति श्रीमज्जिनचरणसरोजचञ्चरीकवादिमातङ्गपञ्चाननमहाव्रतपञ्चकविलासगेहतपश्चर्याचरणचक्रवर्त्याचार्यवर्यश्री
मद्विजयनेमिसूरीश्वरशिष्यप्रवर्तकयशोविजयविरचिता सहृदयकण्ठशोभिनी वीरोज्ज्वलगुणगुम्फिता विविधनामगर्भच्छन्दोमयमुक्तकषट्त्रिंशिका ॥
॥ इतिश्रीचरमजिनेश्वरश्रीमहावीरस्वामिषट्विंशिका समाप्ता ॥
३५. अष्टभकारमनोहरबन्धनवृत्तकिरीटमिदं परिभावय ॥
अन्यत्राऽप्युक्तम्पादयुगं कुरु नूपुरसुन्दरमत्र करं वररत्नमनोहरवर्णयुगं कुसुमद्वयसंगतकुण्डलगन्धयुगं समुपाहर । पण्डितमण्डलिकाहृतमानसकल्पितसज्जनमौलिरसालयपिङ्गलपन्नगराजनिवेदितवृत्तकिरीटमिदं परिभावय ॥
उट्टवणिका यथा - ॥ ॥ ॥ ॥ ॥ ॥ sms ३६. यदि नगणयुगं ततः सप्तरेफास्तदा चण्डवृष्टिप्रपातो मतो दण्डकः ॥
उट्टवणिका यथा - 51551S SS SS SS SS SIS