SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ अथैकविंशत्यक्षरपादं प्रकृत्यां म्रग्धरावृत्तम् कैलासोद्दामकान्तिस्फुरदमलतलन्यस्तचित्रोपलाढ्ये भव्यस्तोत्रावलीसम्मुखरितककुभि स्वान्तपद्मार्करोचिः । नानालङ्कारहारिण्यघदलनकरी वीर ! मूर्त्तिस्त्वदीया प्रोद्यद्दीप्रप्रभाढ्यामलमणिनिकरैस्रग्धरा हन्तु पापम् ॥३४॥ अथ द्वाविंशत्यक्षरपादं कृत्यां मदिरावृत्तम् ये मदिरासुहिता मनुजा न भजन्ति तवाऽङ्घ्रिसरोजयुगं ते जिन ! निर्गतपुण्यभरा भयभारसुदुःखितमानसकाः । शश्वदशेषशरीरिविशारणकारणचिन्तननद्धहृदोनो गणयन्ति परोपकृतिं न विदन्ति गुणं न भजन्ति सुखम् ॥ ३५ ॥ अथ चतुर्विंशत्यक्षरचरणं संकृत्यां दुर्मिलवृत्तम् प्रणिधाय भवत्पदपङ्कजमीश ! जिनेन्द्र ! भवामयभेदकरं ससुरासुरमर्त्यनतं सततं परिदुम्मिलमोक्षसुखप्रददम् । लभते सकलः खलु सौख्यमनन्तमिहाऽपि परत्र च किं बहुना प्रणतः सकृदप्यमरैः पुरुषः सततं महितो भवति प्रणयात् ॥ ३६ ॥ ३२. लोकैश्छिन्ना त्रिकृत्वो मरभनयययैः सुन्दरा स्रग्धरेयम् ॥ अन्यत्राऽप्युक्तं कर्णं ताटङ्गयुक्तं वलयमपि सुवर्णं च मञ्जीरयुग्मं पुष्पं गन्धं वहन्ती द्विजगणरुचिरा नूपुरद्वन्द्वयुक्ता । शङ्ख हारं दधाना सुललितरसना रूपवत्कुण्डलाभ्यां मुग्धा केषां न चित्तं तरलयति बलात् स्रग्धरा कामिनीव ॥ उट्टवणिका यथा sss sis - 5 || || ss Iss iss ३३. सप्तभकारयुता सगुरुर्गदितेयमुदारतरा मदिरा ॥ उट्टवणिका यथा - 5 || 5 ॥ 5॥ 5॥5॥5॥5॥ s ३४. सगणौ सगणी सगणौ सगणौ यदि दुम्मिलमेतदवेहि तदा ॥ अन्यत्राऽप्युक्तम् विनिधाय करं गुरुरत्नमनोहरबाहुयुगं कुरु रत्नधरं सगणं च ततः कुरु पाणितलं वरपुष्पयुगं विनिधाय गुरुम् । इति दुम्मिलका फणिनायक संरचिता किल वर्णविलासपरा चतुराश्रितविंशतिवर्णकृता कविता सुकृताश्रयशिल्पधरा ॥ उट्टवणिका यथा ॥15 ॥ ॥ ॥ ॥ ॥s is us ८
SR No.521028
Book TitleNandanvan Kalpataru 2012 03 SrNo 28
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size275 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy