Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 18
________________ अभिराजगलज्जलिका: प्रा. अभिराजराजेन्द्रमिश्रः १. नो मया निवेद्यन्ते न जातु मौकुलयः कोकिलेषु गण्यन्ते रूपसाम्येऽपि च ते दुःस्वरेण भिद्यन्ते ॥१॥ चारुतां यानि वितन्वन्ति योषिदास्यानां व्यञ्जने जातु न बिम्बानि तानि कल्प्यन्ते ॥२॥ दन्तयोर्हन्त महिम्ना ययोर्बभौ दन्ती तरुत्वचो न च ताभ्यां कदापि चर्व्यन्ते ॥३॥ गृहेऽस्ति तस्य हलं काञ्चनं, मयाऽवगतम् परन्तु मालभुवस्तेन नैव कृष्यन्ते ॥ ४ ॥ सन्ति दुःखानि ममाऽप्यङ्ग ! मर्मभिन्दि, परं यस्य कस्याऽपि पुरो नो मया निवेद्यन्ते ॥५॥ जीवने यद्धि मयाऽऽलोकितं श्रुतं, सोढम् ज्ञायते तेन हि किं बन्धवस्समीहन्ते ॥६॥ कामममाऽस्तु विचारास्पदं नु मद्वृत्तम् पुरे तु माघवने तान्योऽभिनीयन्ते ॥७॥ नृपो न कोऽपि, यशो यस्य दोषधूसरितम् यशांसि किन्तु कवीनां न जातु जीर्यन्ते ॥८॥ १८

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86