________________
अभिराजगलज्जलिका:
प्रा. अभिराजराजेन्द्रमिश्रः
१. नो मया निवेद्यन्ते
न जातु मौकुलयः कोकिलेषु गण्यन्ते रूपसाम्येऽपि च ते दुःस्वरेण भिद्यन्ते ॥१॥ चारुतां यानि वितन्वन्ति योषिदास्यानां व्यञ्जने जातु न बिम्बानि तानि कल्प्यन्ते ॥२॥
दन्तयोर्हन्त महिम्ना ययोर्बभौ दन्ती तरुत्वचो न च ताभ्यां कदापि चर्व्यन्ते ॥३॥
गृहेऽस्ति तस्य हलं काञ्चनं, मयाऽवगतम् परन्तु मालभुवस्तेन नैव कृष्यन्ते ॥ ४ ॥
सन्ति दुःखानि ममाऽप्यङ्ग ! मर्मभिन्दि, परं यस्य कस्याऽपि पुरो नो मया निवेद्यन्ते ॥५॥ जीवने यद्धि मयाऽऽलोकितं श्रुतं, सोढम् ज्ञायते तेन हि किं बन्धवस्समीहन्ते ॥६॥ कामममाऽस्तु विचारास्पदं नु मद्वृत्तम् पुरे तु माघवने तान्योऽभिनीयन्ते ॥७॥
नृपो न कोऽपि, यशो यस्य दोषधूसरितम् यशांसि किन्तु कवीनां न जातु जीर्यन्ते ॥८॥
१८