Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 5
________________ अथ पञ्चदशाक्षरपादमतिशक्कल् मालिनीवृत्तम् जननमरणवीचिप्राप्तदुःखौघनृणां पृथुदवथुभवोर्मीमालिनीह भ्रमन्तः । भवति च शरणं नो वीरनाथं विनाऽन्यः इति विदधतु लोको वीरसेवां सुखालीम् ॥२२॥ अथ पञ्चदशाक्षरपादमतिशकर्त्यां कामक्रीडावृत्तम् कामक्रीडामुक्तं शुद्धात्मानं देवैर्वन्यं तं सौख्यावासं शुद्धज्ञानं लोकानन्दं नाथं च । वीरं धीरं दोषोन्मुक्तं शश्वच्छान्तं सर्वज्ञम ईशं लोकत्रातारं दीनोद्धारं भक्त्या स्तौमि ॥२३॥ अथ षोडशाक्षरपादमष्ट्यां गरुडरुतवृत्तम् सततमहं जिनेश्वरवरं भवत्रायकं सकलभयानलोदकसमं सुनामेष्टदम् । तव पमं भजामि भुवनैकबन्धो ! विभो ! गरुडैरुतं मदादिभुजगेन्द्रसवासने ॥२४॥ अथ षोडशाक्षरपादमष्ट्यां चकितावृत्तम् भीमभववनश्रेणीभ्रान्तिक्लान्तिसचकिताभव्यवरभरा दारिद्र्यप्रोडुनतमहृदः । इच्छथ लघु चेद् गन्तुं मोहाब्धेरपरतटं गच्छत शरणं श्रीवीरं भीताभयददनम ॥२५॥ २०. नगणयुगलयुक्ता मेन मध्ये प्रयुक्ता, यगणयुगलनद्धा बद्धमोदप्रबन्धा । इह भवति न केषां हारिणी चित्तवृत्तिर्मधुरपदविलासा मालिनी नागवाहै: ॥ उट्टवणिका यथा - ।।।।।। sss sss २१. लीलानेलं केचित्प्राज्ञाः प्राहुस्तां नृत्यद्वर्णां यां सारङ्गी वृत्तत्वेन प्राहुर्विज्ञाः केचित्सा । कामक्रीडाख्या ख्याता छन्दोविदिश्छन्दोग्रन्थे मैर्बाणैः सौन्दर्याढ्या कस्याऽन्तः मोदं दत्ते ॥ उट्टवणिका यथा - SSS SSS SSS SSS SSS २२. भवति पुरो नसंज्ञकगणो जसंज्ञकस्ततः भगण इतः परं जगणशोभितः स्यात्तथा । भवति ततस्तसंज्ञकगणो गुरुस्ततः परं गरुडरुतं तदा मनसि भाव्यतां मनोहरम् ॥ उट्टवणिका यथा - ।।।।।।।।। sss २३. भाभिधगण एव स्यात् पूर्वं साभिधगणतः यत्र भवति रम्यत्वं तस्मात् स्याद्यदि मगणः । तस्य च रचना तस्मात् तस्माद्यदि नगणः गो यदि गदिता सेयं प्रा स्तर्हि तु चकिता ॥ उट्टवणिका यथा - ।।।। sssss ।।।।

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 86