________________
अथ पञ्चदशाक्षरपादमतिशक्कल् मालिनीवृत्तम् जननमरणवीचिप्राप्तदुःखौघनृणां पृथुदवथुभवोर्मीमालिनीह भ्रमन्तः । भवति च शरणं नो वीरनाथं विनाऽन्यः इति विदधतु लोको वीरसेवां सुखालीम् ॥२२॥
अथ पञ्चदशाक्षरपादमतिशकर्त्यां कामक्रीडावृत्तम् कामक्रीडामुक्तं शुद्धात्मानं देवैर्वन्यं तं सौख्यावासं शुद्धज्ञानं लोकानन्दं नाथं च । वीरं धीरं दोषोन्मुक्तं शश्वच्छान्तं सर्वज्ञम ईशं लोकत्रातारं दीनोद्धारं भक्त्या स्तौमि ॥२३॥
अथ षोडशाक्षरपादमष्ट्यां गरुडरुतवृत्तम् सततमहं जिनेश्वरवरं भवत्रायकं
सकलभयानलोदकसमं सुनामेष्टदम् । तव पमं भजामि भुवनैकबन्धो ! विभो !
गरुडैरुतं मदादिभुजगेन्द्रसवासने ॥२४॥
अथ षोडशाक्षरपादमष्ट्यां चकितावृत्तम् भीमभववनश्रेणीभ्रान्तिक्लान्तिसचकिताभव्यवरभरा दारिद्र्यप्रोडुनतमहृदः । इच्छथ लघु चेद् गन्तुं मोहाब्धेरपरतटं गच्छत शरणं श्रीवीरं भीताभयददनम ॥२५॥
२०. नगणयुगलयुक्ता मेन मध्ये प्रयुक्ता, यगणयुगलनद्धा बद्धमोदप्रबन्धा । इह भवति न केषां हारिणी चित्तवृत्तिर्मधुरपदविलासा
मालिनी नागवाहै: ॥ उट्टवणिका यथा - ।।।।।। sss sss २१. लीलानेलं केचित्प्राज्ञाः प्राहुस्तां नृत्यद्वर्णां यां सारङ्गी वृत्तत्वेन प्राहुर्विज्ञाः केचित्सा । कामक्रीडाख्या ख्याता
छन्दोविदिश्छन्दोग्रन्थे मैर्बाणैः सौन्दर्याढ्या कस्याऽन्तः मोदं दत्ते ॥ उट्टवणिका यथा - SSS SSS SSS SSS SSS २२. भवति पुरो नसंज्ञकगणो जसंज्ञकस्ततः भगण इतः परं जगणशोभितः स्यात्तथा । भवति ततस्तसंज्ञकगणो गुरुस्ततः
परं गरुडरुतं तदा मनसि भाव्यतां मनोहरम् ॥ उट्टवणिका यथा - ।।।।।।।।। sss २३. भाभिधगण एव स्यात् पूर्वं साभिधगणतः यत्र भवति रम्यत्वं तस्मात् स्याद्यदि मगणः । तस्य च रचना तस्मात् तस्माद्यदि नगणः गो यदि गदिता सेयं प्रा स्तर्हि तु चकिता ॥ उट्टवणिका यथा - ।।।। sssss
।।।।