SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ अथ षोडशाक्षरपादमष्ट्यां चित्रवृत्तम् चित्रचित्तवृत्तयो विबाधयन्ति दुःखभेद ! मां विभो ! न विश्वमेतदेव देव ! सारमस्ति । त्वत्पदाब्जभक्तिरस्तु चित्तधाम्नि वस्तुतस्तु नाऽन्यदत्र भूतले लषामि सारवस्तु नाथ ! ॥२६॥ अथ सप्तदशाक्षरपादमत्यष्ट्यां हरिणीवृत्तम् तव पदयुगं ज्ञानोद्रेकप्रदायि भजन्ति ये भवति तृणवत् संसारोऽयं जिनेन्द्र ! महात्मनाम् । चकितहरिणी नेत्रा वामध्रुवश्च मनोहरानहि न च धनं तेषां लोभाय वीतरजोहृदाम् ॥२७॥ अथ सप्तदशाक्षरपादमत्यष्ट्यां पृथ्वीवृत्तम् महामहिमभासुराच्चितसमस्तपूथ्वीश्वरैः सुदेशनवचोऽमृतैर्जनितचन्द्रमोन्यक्कृतिः । विलोचनविभाजितातिचलखञ्जरीटप्रभा मनो हरति कस्य नो तव मुखप्रभा साडमला ॥२८॥ अथाऽष्टादशाक्षरपादं धूत्यां शार्दूलललितवृत्तम् बिभ्रन्मोहमृगादिदर्पदलने शार्दूलललितम् कुवल्लोकहृदब्जबोधमनिशं त्वद्वाक्यनिकरः । उद्यगास्करवत् सुरासुरनराभिस्तव्यचरण ! जीयाद्देव ! महोपकारचतुरो द्राक्षासमरसः ॥२९॥ २४. यत्र राभिधो गणः पुरस्ततो जसंज्ञकोऽथ राभिधेन मण्डितो गणेन जस्तत: पुनस्तु । कीर्तितो रसंज्ञको गणश्च लान्तिम बुधेन चित्रसंज्ञमीरितं बुधप्रमोददायकं तत् ॥ उट्टवणिका यथा - । । । । । । । । २५. नगणसुभगः प्राच्यो भागस्ततस्सगण: पुन: मगणसहितो राख्यस्स्याच्चेत्ततस्सगणो लघुः । गुरुविरचना यस्यामन्त्ये बुधैरिह सा मता भवति विरतिर्यद्वेदाश्वैर्यदा हरिणी तदा ॥ उट्टवणिका यथा - ।।।।।ssssss ।। । २६. जसंज्ञकगणः पुरो भवति साभिधोऽथो गणः जसंज्ञकगणः पुनर्भवति साभिधोऽनन्तरम् । यसशंकगणान्विता लघुगुरुप्रशस्ताऽन्तिमा वसुग्रहयतिर्बुधैरिहमता तु पृथ्वी वरा ॥ उट्टवणिका यथा - 15।।।।।sss २७. माभिख्यः प्रथमं गणस्सगणसम्भ्राजी यदि तत: जाख्यस्स्याच्च गणस्ततस्सगणसंराजी परमितः । ताख्यश्चेत्तदनन्तरं सगणसम्बन्धो भवति चेत् तर्हि ज्ञैः प्रथितं दिवाकररसैः शार्दूलललितम् ॥ उट्टवणिका यथा - Sss ।।। ।।।5ss।।।
SR No.521028
Book TitleNandanvan Kalpataru 2012 03 SrNo 28
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size275 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy