Book Title: Nandanvan Kalpataru 2012 03 SrNo 28 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 3
________________ अथैकादशाक्षरपादं त्रिष्टुभि इन्द्रवज्राच्छन्दः स्तौतीश्वरं वीरविभुं जनोऽथ देवेन्द्रपूज्यक्रमपद्मरागम् । यो मानवस्तस्य तु पुण्यभाजो नो इन्द्रवज्रादपि भीतिरस्ति ॥१२॥ अथ द्वादशाक्षरपादं जगत्यां वंशस्थवृत्तम् सदा सुवंशस्थभवैर्जनोत्तमैः प्रपूज्यपादाब्जयुगं मुनीश्वरम् । सदा महावीरजिनं जिनेश्वरं स्तवीमि भक्तिप्रसरद्वचोभरैः ॥१३॥ ___ अथ द्वादशाक्षरपादं जगत्यां प्रियंवदावृत्तम् शिवसुखप्रदविभो प्रियंवर्दीदिविषदो मधुररावकलिताः । अथ भजन्ति तमहर्निशमरं भजति यस्तव पदाम्बुजवरम् ॥१४॥ अथ द्वादशाक्षरपादं जगत्यां प्रमिताक्षरावृत्तम् प्रमिताक्षरान् तव वचोलहरी बहुभक्तितो हृदयतोषकरीम् ॥ बहुलप्रबोधकरवाक्यवरां प्रभजामि तां भवभयापहराम् ॥१५॥ अथ द्वादशाक्षरपादं जगत्यां प्रभावृत्तम् द्युतिपतिशतभासमानधुते! मुनिवर! भवभीप्रविध्वंसक!। जिनवर! तब सा प्रशस्तप्रभा" मम शमसुखदाऽस्तु वीतस्पृह! ॥१६॥ १०. आदौ तयुग्मेन विराजमाना मध्ये जकारेण विभूषिता या । अन्ते गकारद्वयमण्डिता सा स्यादिन्द्रवज्रा विबुधप्रसिद्धा॥ उट्टवणिका यथा - sss ।।।ss ११. गणो जसंज्ञः प्रविभासते पुरस्तकारनामा च परस्ततो भवेत् । ततो जकारो रगणश्च भासते प्रतीहि वंशस्थमिदं महामते! उट्टवणिका यथा - 15 s । । । १२. प्रथममेव नगणेन संयुता भवति भेन विशदा बुधैर्मता । जगणरञ्जितनिबन्धशोभिता रगणबद्धचरमा प्रियंवदा ॥ उट्टवणिका यथा - ।।। ।।। । । १३. प्रथमं भवेत् सगणबन्धयुता जगणप्रिया सयुगलेन युता । भुवि कस्य नैव सुखदाऽभिमता प्रमिताक्षरा बुधगणप्रथिता ॥ उट्टवणिका यथा - ।।।।।।।। १४. भवति नगणसंयुता नेन या पुनरपि विबुधप्रिया मण्डिता । रगणविरचिता प्रभाह्लादिका स्वरशरविरतीरहृद्यान्तिमा ॥ उट्टवणिका यथा - ।।।।।। । ।Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 86