Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 2
________________ अथाऽष्टाक्षरपादमनुष्टुभि विद्युन्मालावृत्तम् विद्युन्मालानाशां लक्ष्मी, देवेच्छन्ति त्वद्ध्याशून्या ॥ नो ते मा मोक्षं वीर !, मायामोहे सक्ता यान्ति ॥७॥ अथाऽष्टाक्षरपादमनुष्टुभि चित्रपदावृत्तम चित्रपदा तव वाणी शान्तिसुखाय ममाऽस्तु । आप्तजनाः कविलोका यामनिशन्तु नुवन्ति ॥८॥ अथ नवाक्षरपादं बृहत्यां भुजगशिशुभृतावृत्तम् तव जिनवर! भक्ता ये न भवति किल तेषां तु । शमसुखदद! भीत्यै सा भुजगशिशुभृता भूमिः ॥७॥ अथ दशाक्षरपादं पङ्क्त्यां मत्तावृत्तम् मत्ता लोका तव न भजन्ति पादाम्भोजं विषयमसारम् । मन्वाना ये शुभफलहेतुं ते यान्तीशाऽसुखमिह भूयः ॥१०॥ अथैकादशाक्षरपादं त्रिष्टुभि स्वागतावृत्तम् नाथ! ते पदसरोजमिलिन्दा ये जना भुवि वरा विभयास्ते ॥ लब्धपुण्यभरदेव! सुरेभ्यः स्वागतानि सुरपूज्य! लभन्ते ॥११॥ ५. विश्राम: स्यात्पारावारैः सर्वे यत्र ख्याता दीर्घाः । अष्टौ वर्णाः सा शोभाढ्या विज्ञै या विद्युन्माला ॥ उट्टवणिका यथा - sss sssss ६. या भगणेन पिनद्धा भेन पुनः प्रविबद्धा । गद्वयतो रमणीया चित्रपदा कथिता सा ॥ उट्टवणिका यथा - 5 ।।७।। ७. नगणयुगलसन्नद्धा मगणविततसौन्दर्या । कविकुलकथिता त्वेषा भुजगशिशुभृता ज्ञेया ॥ उट्टवणिका यथा - ।।।।।।sss ८. यस्यां पूर्वं मगणविलास: पश्चात्तस्माद् भगणनिबन्धः । मध्ये सेन प्रविगदिता सा विज्ञैर्मत्ता गुरुरचितान्त्या ॥ उट्टवणिका यथा - sss s।।।।ss ९. कीर्तितेह विबुधै रमणीया स्वागतेति मधुराक्षरबद्धा । रेण नेन सुभगा भगणेन सा गुरुद्वयमनोहरबन्धा ॥ उट्टवणिका यथा - 5 । ।।। ।।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 86