Book Title: Nandanvan Kalpataru 2012 03 SrNo 28 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 4
________________ अथ द्वादशाक्षरपादं जगत्यां कुसुमविचित्रावृत्तम् कुसुमविचित्रां तव जिन! पूजां विदधति लोका निरुपमभक्त्या । अमरवरा ये पदयुगलस्य विदधति सेवां शिवकर! तेषाम ॥१७॥ अथ त्रयोदशाक्षरपादमतिजगत्यामतिरुचिरावृत्तम् तवाऽनिशं तु सुरवरप्रपूजितोत्तमक्रमप्रविलसदच्छकान्तिका । सुखाय मेऽस्त्वैतिरुचिरा नखावली भवोदधिप्रवरतरिर्जिनेश्वर! ॥१८॥ अथ त्रयोदशाक्षरपादमतिजगत्यां मृगेन्द्रमुखवृत्तम् प्रकुपितमप्यथ भूतले कदापि भवति मृगेन्द्रमुखं न भीतिदानम् । तव चरणाम्बुजभक्ति रक्तचित्तासमशमधाम शरीरिणां यतीन्द्र! ॥१९॥ अथ चतुर्दशाक्षरपादं शवल् सिंहोद्धतावृत्तम् (वसन्ततिलका) तॄणां क्रुधोद्धतशरीविभाविभाजां क्रोधोद्धतद्विपवरस्य विघातने सा । सिंहोर्द्धता भवति यस्य शरीरकान्ति: सिद्धार्थनन्दनजिनः ससुखाय मेऽस्तु ॥२०॥ __ अथ चतुर्दशाक्षरपादं शक्चर्यां लोलावृत्तम् भव्या यौवनलक्ष्मीविद्युद्विभ्रमलोला विश्वाश्चर्यचरित्र: श्रीवीरोऽतिदरापः । तद्यूयं शमसारं संसारोदधितारं विश्वेशं भजत द्राग श्रीवीरं जिननागम् ॥२१॥ १५. नगणपिनद्धा यगणविनद्धा पुनरपि या स्यालगणसुकाम्या । यगणपिनद्धान्तिक पदरम्या बुधगदिता सा कुसुमाविचित्रा उट्टवणिका यथा - ।।।। ।।।।ss १६. भवेत्पुरो जगणयुता ततः पुनर्मता बुधैरिह भगणेन मण्डिता । ततो भवेत् सजगुरुराजिता वरा चतुर्ग्रहैरतिरुचिरा प्रकीर्त्तिता ॥ उट्टवणिका यथा - 1 । ।।।। । । १७. नगणविराजितपूर्वभागकं यत् भवति ततो जगणस्य यत्र योगः । पुनरपि जेन सरेण मण्डितं तत् सगुरु मृगेन्द्रमुखं बुधैर्विबोध्यम् ॥ उट्टवणिका यथा - ।।।।।।।।ss १८. सेयं तभौ जजगगा मुनिकाश्यपेन सिंहोद्धतेति कथिता मुनिसैतवेन । उद्धर्षिणीति गदिता मधुमाधवीति नागैर्वसन्ततिलका सकलप्रसिद्धा ॥ उट्टवणिका यथा - sss।।।।।। ss १९. पूर्वं मस्य निबन्धस्तस्मात्सो विनियोज्य:, मस्तस्मात्परतश्चेत् तस्मात् भस्य निवेशः । अन्ते गद्वययोगो यस्यां विबुधालादी, द्विः सप्तच्छिदि लोला ज्ञेया विज़मता सा ॥ उट्टवणिका यथा - ssssssss ૧ ૭ ૩Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 86