Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 138
________________ १०: गुणरत्नसूरिविरचित- अवचूर्ण्यपेतः - अथ अस्मिन् साद्यादिप्ररूपणामाह - चडतेयवन्न वेयणियनामणुकोसु सेसधुवबंधी । घाणं अजहन्नो गोए दुविहो इमो चहा ॥ ७४ ॥ मेसम्म दुहा 7 चउ० तैजसकार्मणागुरुलघुनिर्माणप्रशस्तवर्ण गन्ध-रस स्पर्शलक्षणानामष्टप्रकृतीनामनुस्कृष्टोऽनुभागबन्धः साद्यादिचतुर्विकल्पोऽपि ज्ञेयः । तथाहि एतासानुत्कृष्टमनुभागबन्धं क्षपकाऽपूर्वकरणो देवगतिप्रायोग्याणां त्रिंशत्प्रकृतीनां बन्धव्यवच्छेदसमये करोति, एतस्मात्पुनरन्यत्रोपशमश्रेणावप्यनुत्कृष्टोऽनुभागबन्धो लभ्यते स चोपशान्तमोहाद्यवस्थायां सर्वथा न स्यादिति ततः पतितैर्बध्यमानः सादिरित्यादि । सातयश:कीर्त्तिनाम्नोः सर्वोत्कृष्टो रसः क्षपक- सूक्ष्मसम्परायचरमसमये प्राप्यते, ततोऽन्यः सर्वोऽप्युपशमश्रेणावप्यनुत्कृष्टस्ततश्चोपशान्तमोहावस्थायां तस्यापि बन्धो न स्यात् पुनरपि च ततः प्रतिपत्य तमेव बघ्नतोऽनुत्कृष्टाऽनुभागः सादिरेवमन्येऽपि भगा द्रष्टव्याः । शेषध्रुवबन्धिनीनामप्रशस्तवर्णचतुष्कक्षेपात् ४३ संख्यानां घातिकर्मचतुष्कस्य चाऽजघन्योऽनुभागबन्धः साद्यादिचतुर्विकल्पोऽपि स्यात् । तथा गोत्रे 'इमो' अयमनुभागबन्धो 'दुविहो' अजघन्या (यो ) ऽनुत्कृष्टरूपो साद्यादिश्चतुर्धा 'सेसम्मि दुहन्ति [ गाथा ७५] उत्तरगाथाद्यबयबाच्छेषे- उत्कृष्टजघन्याऽजघन्यानुभागबन्धत्रिके 'दुह' ति सादिरध्रुवश्चेति । तत्र यदा तासामुत्कृष्टानुभागबन्धमपूर्वकरणो विधत्ते तदाऽसौ तत्प्रथमत्वेन सादिः, समयानन्तरमवश्यमभावादध्रुवः, जघन्यानुभागं त्वेतासां मिथ्यादृष्टिः संज्ञी पर्याप्तो बध्नाति, पुनर्जघन्यतः समयादुत्कर्षतः समयं यादवश्यं स एवाजघन्यं बध्नाति, पुनः कालान्तरे स एवोत्कृष्टम्, एवं जघन्याजघन्येषु परावर्त्तमानजन्तूनामुभयत्र साद्यध्रुवता । वेद्ये सातस्य नाम्नि च यश: कीर्ते: 'सेम्मि दुह' त्ति पदस्य सम्बन्धाच्छ्रेषे उत्कृष्टजघन्यावयन्यानुभागलक्षणे द्विधा सादिरध्रुवः । तत्र क्षपकसूक्ष्मोऽतिविशुद्धत्वात् सातयशसोरुत्कृष्टरसं बध्नाति स च तत्प्रथमं बध्यमानतया सादिः क्षीणामोहाद्यवस्थायां नियमात् तद्बन्धो न भविष्यतीत्यध्रुवः जघन्यानुभागं त्वनयोः सम्यग्दृष्टिर्मिथ्यादृष्टिर्वा मध्यमपरिणामो बध्नाति स चाजधन्यादवतीर्य बध्यत इति सादिः, पुनर्जघन्यतः समयादुत्कर्षतः समयचतुष्टयादजघन्यानुभागं बघ्नतो जघन्योऽध्रुवः, अजघन्यस्तु सादिरिति परावृत्त्या द्वयोः साद्यध्रुवना । शेषध्रुवबन्धि४३ प्रकृतीनां मध्ये ज्ञानावरणपञ्चकदर्शनावरणचतुष्कान्तराय१-० नाम्नो वेदनीयनाभमूलकर्मणोः स० पा० । -

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220