Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 147
________________ शतकनामा पञ्चमः कर्मग्रन्थः पण अनियट्टी सुखगइनराउसुरसुभगतिगविउन्विद्गं । समचउरंसमसायं वरं मिच्छो व सम्मो वा ॥११॥ पण पश्चानां पुंवेद-संज्वलनचतुष्करूपाणां सर्वोत्कृष्टयोगोऽनिवृत्तिबादर उत्कृष्टं प्रदेश बध्नाति, प्राग्व्यवच्छिन्नशेषवेदकषायायधिकभागलाभात् । सुखगत्यादित्रयोदशप्रकृतीनां मिथ्यादृष्टिः सम्यग्दृष्टिर्वोत्कृष्टप्रदेशबन्धकः । असातस्य सप्तविधबन्धकालसमये सातस्यायुषां भागक्षेपात् । नरदेवायुषोरष्टविधबन्धे शेषायुस्त्रयभागक्षेपात् । शेषनामप्रकृतिनवकस्य देवगतियोग्याष्टाविंशतिबन्धकाले एकोनत्रिंशदादिबन्धापेक्षयाऽल्पभागपातात् । अधस्तनबन्धस्थानेष्वेता बन्ध एव नायान्ति । अष्टाविंशतिमेव बज्रर्षभनाराचसहितां नरगतियोग्यामेकोनत्रिंशतं बध्नतो बज्रस्योत्कृष्टप्रदेशबन्धस्त्रिंशदादिबन्धापेक्षयाऽल्पभागपातात् ।।९१|| निद्दापयलादुजुयलभयकुच्छातित्थ सम्मगो सुजई । आहारदुर्ग सेसा उकोसपएसगा मिच्छो ॥१२॥ निद्दा० निद्रा-प्रचलयोर्व्यवच्छिन्नबन्धस्त्यानद्धित्रिकभागस्य क्षेपात् । हास्यरत्यरतिशोकभयजुगुप्साजिनानां च प्राग्व्यवच्छिन्नबन्धमिथ्यात्वादिभागलाभादेताः प्रकृतीरुत्कृष्टप्रदेशबन्धादुत्कृष्टयोगी सप्तविधबन्धको ज्ञानादित्रयेण सम्यग्मोक्षमार्गं गच्छतीति सम्मगो' सम्यग्दृष्टिः करोति । सुयतिरप्रमत्तोऽपूर्वो वाऽऽहारकद्विकं नामकर्मणो देवगतियोग्यत्रिंशद्वन्धस्थानकाले उत्कृष्टयोगादिविशेषण उत्कृष्टप्रदेशं बध्नाति, एकत्रिंशगन्धापेक्षया तत्र तस्य भागाधिक्यात् । शेषा उक्तव्यतिरिक्ताः ६६प्रकृतीमिथ्यादृष्टिरेवोत्कृष्टप्रदेशा बध्नाति । तत्र नरद्रिकपञ्चेन्द्रिजात्यौदारिकद्विकतैजसकार्मणवर्णादिचतुष्काऽगुरुलघूपघातपराधातोच्छ्वासत्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरशुभाशुभयशःकीर्तिनिर्माणलक्षणाः पञ्चविंशतिप्रकृतीर्मुक्त्वा शेषाः ४१ सम्यग्दृष्टेर्बन्ध एव नायान्ति, यद्यपि तन्मध्यात् काश्चित् सास्वादनोऽपि बध्नाति तथाऽप्यस्योत्कृष्टयोगो न लभ्यते, अत एताः ४१ प्रकृतीमिथ्यादृष्टिरेवोत्कृष्टयोगी मूलप्रकृतीनामुत्तरप्रकृतीनां च यथासम्भवमल्पतरबन्धक उत्कृष्टप्रदेशाः करोति । या अपि २५ प्रकृतयः सम्यग्दृष्टेबन्धमायान्ति ता अपि नरद्विकपञ्चेन्द्रिजात्यौ. दारिकाङ्गोपाङ्गपराघातोच्चासत्रसशुभस्थिरपर्याप्तवनपञ्चदशप्रकृतीनामपर्याप्पैकेन्द्रिपयोग्पनामसत्कत्रयोविंशतिबन्धेनैव सह बध्यमानानामुत्कृष्टप्रदेशबन्धो लभ्यते, नोत्तरः पञ्चविंशत्यादिभिर्भागबाहुल्यात् । नरद्विकादिदशप्रकृतीनां पर्याप्तकेन्द्रिय-पर्याप्तत्रसयोग्यपञ्चविंशतिबन्धेनैव सह बध्यमानानामुत्कृष्टप्रदेश

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220