Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सप्ततिकाप्रकरणम् अयं मिथ्यादृष्टेः सास्वादनस्याऽचिरतसम्यग्दृष्टेदेशविरतस्य वा, न सम्यग्मिथ्यादृष्टेस्तस्यायुर्बन्धाऽभावात् । एते चत्वारो भङ्गाः परभवायुर्बन्धकाले । बन्थे तु व्यवच्छिन्ने तिर्यगायुष उदयो नारकनिर्यगायुषी सनी, अयमाद्येषु पञ्चसु गुणस्थानेषु नरकायुर्बन्धानन्तरं सम्यक्त्वादावपि गमनात् । अथवा निर्यगायुष उदयस्तियक्तिर्यगायुषी सती, अथवा नियंगायुष उदयो मनुष्य-तिर्यगायुषी सती, अथवा निर्यगायुष उदयो देवतिर्यगायुषी सत्येते त्रयो भङ्गा आद्येषु पञ्चसु गुणस्थानेषु । सर्वसंख्यया तिरश्चां नब भङ्गाः ।
तथा मनुष्यायुष उदयो मनुष्यायुषः सत्ताऽयमयोगिकेवलिनं यावत् । नारकायुषो बन्धो मनुष्यायुष उदयो नारक-मनुष्यायुषर्षी सनी, अयं मिथ्यादृष्टेः । तिर्यगायुषो बन्धो मनुष्यायुष उदयस्तिर्यग्मनुष्यायुषी सती, अयं मिथ्यादृष्टेः सास्वादनस्य वा । मनुष्यायुषो बन्धो मनुष्यायुष उदयो मनुष्यमनुष्यायुषी सती, अयमपि मिथ्यादृष्टेः सास्वादनस्य वा । देवायुषो बन्धो मनुष्यायुष उदयो देवमनुष्यायुषी सती, अयमप्रमनगुणस्थानं यावन् । एते चन्वारो भगाः परभवायुबन्धकाले । बन्धे तु व्यवच्छिन्ने मनुष्यापुष उदयो नारक-मनुष्यायुषी सती, अयमप्रमत्तगुणस्थानकं यावत्, नरकायुर्बन्धानन्तरं संयमप्रतिपत्तेरपि सम्भवात् । मनुष्यायुष उदयस्तिर्यग्मनुष्यायुषी सती, अयमप्यप्रमत्तगुणस्थानकं यावत् । मनुष्यायुष उदयो मनुष्यमनुष्यायुषी सती, अयमपि प्राग्वत् । मनुष्यायुष उदयो देवमनुष्यायुषी सती, अयमुपशान्तमोगुणस्थानकं यावत्, देवायुषि बद्धेऽप्युपशमश्रेण्यारोहसम्भवात् । सर्वसंख्यया मनुष्याणां नव भगाः । एवमायुषि सर्वसंख्यया २८ भङ्गाः ।
___ तथा गोत्रे एकं बन्धस्थानमेकमुदयस्थानं परस्परविरुद्धत्वाद् युगपद्न्धोदयाभावः । द्वे सत्तास्थाने→ढे एकं च, उच्चैर्गोत्र-नीचैगोत्रे समुदिते द्वे, तेजस्कायिकवायुकायिकावस्थायामुपैत्रि उद्वलिते एकम्, अथवा नीचै-गाँध्योगिकेवलिनि द्विचरमसमये क्षीणे एकम् । संवेध उच्यते—नीचैर्गोत्रस्य बन्धो नीचैर्गोत्रस्योदयो नीचैर्गोत्रं सत, अयं तेजस्कायिक-वायुकायिकेषु लभ्यते, तद्भवादद्वत्तेषु वा शेषजीवेप्वेकद्रि त्रि-चतुस्तिर्यक्पञ्चेन्द्रियेषु कियत्कालं। नीचैर्गोत्रस्य बन्ध नीचैत्रिस्योदय उच्चनीचैर्गोत्रे सती अथवा नीचैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदय उच्चनीचैोंने सती, एतौ भङ्गौ मिथ्यादृष्टिषु सास्वादनेषु बा, न सम्पग्मिथ्यादृष्ट्यादिषु, तेषां नीचैर्गोत्रबन्धाभावात् । तथोच्चैर्गोत्रस्य बन्धो नीचैर्गोत्रस्योदय उच्चनीचेोत्रे सती, अयं मिथ्यादृष्ट्यादिषु देशविरतगुणस्थानं यावन्न परतः, नत्र नीचैर्गोत्रस्योदयाभावात् । तथोच्वैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदय उच्चनीचेगों। सती, अयं मिथ्यादृष्टेः सूक्ष्मसम्परायगुणस्थानकं यावत् परतो बन्धाऽभावात् । बन्धाभावे उच्चोदय उच्चनीचसनाऽयमुपशान्तमोहादयोगिद्विचरमसमयं यावत्, उच्चोदय

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220