Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 187
________________ सप्ततिकाप्रकरणम् वोदयो नवविधा सत्ता । तथैकस्मिन् पर्याप्तसंज्ञिपञ्चेन्द्रियरूपे ११ भङ्गास्ते च यथा प्राग् संवेधचिन्तायामुक्तास्तथैवात्र वक्तव्याः । तथा वेदनीयायुगात्रेषु यानि बन्धादिप्रकृतिस्थानानि तानि यथागम जीवस्थानेषु विभजेत्, तत्रेयं वेदनीयगोत्रयोर्विकल्पनिरूपणार्थ मन्तर्भाष्यगाथा → 'पज्जत्तगसनियरे अट्ट चउक्कं च वेणियभंगा सत्ता तिगं च गोए पत्तेयं जीवठाणेसु' ।। पर्याप्त संज्ञिनि वेदनीयस्य ८ भङ्गातद्यथा-→असातस्य बन्धोऽसातस्योदयः सातासाते सनी अथवा सातस्य बन्धः सातस्योदयः सातासाने सती, तो वो भलो मिथ्याः प्रम यातायने । तथा सातबन्धोऽसातोदयः सातासाते सती अथवा सातबन्धः सातोदयः सातासाते सती, एतौ मिथ्यादृष्टेः सयोगिकेवलिगुणस्थानकं यावत्प्राप्यते । असातोदयः सातासाते सती अथवा सातोदयः सातासाते सनी, एतावयोगिकेवलिनि द्विचरमसमयं यावत्प्राप्येते । चरमसमये त्वरातोदयोऽसानसत्ता यस्य द्विचरमसमये सातं क्षीणं, यस्य त्वसातं क्षीणं तस्य सातोदय: सातसना । इह सयोगिकेवल्ययोगिकेवली च द्रव्यमनोऽभिसम्बन्धात् संज्ञी व्यवह्रियते, ततः संज्ञिनि पर्याप्ने वेदनीयस्य ८ भङ्गा उच्यमाना न विम्दाः । तथेतरेषु पर्याप्तसंज्ञिन्यतिरिक्तेषु १३ जीवस्थानेषु प्रत्येकं प्रत्येकं चत्वारो भड्गाः । तथा गोत्रे-गोत्रस्य संज्ञिनि पर्याप्ते ७ भङ्गास्ते च प्राग्वन् । नथेतरेषु १३ जीवस्थानेषु प्रत्येकं त्रयस्त्रयो भङ्गाः, शेषा न सम्भवन्ति, तिर्यसूच्चैर्गोत्रस्योदयाभावान् । राम्प्रत्यायुषो भगनिरूपणार्धमिय मन्तर्भाथ्यगाथा → 'पज्जनापज्जत्लग समणे पज्जन अमण सेसेसु अट्ठावीसं दसगं नवगं पणगं च आउस्स' ।। समना: संज्ञी, तत्र पर्याप्ते संज्ञिन्यायुयो भङ्गाः २८, ते च सामान्येन प्रागप्युक्ताः, अपर्याप्त संज्ञिनि भगकानां दशकं, पर्याप्तेऽमनस्यसंज्ञिनि पञ्चेन्द्रिये भङ्गकानां नवक, शेषेष्वेकादासु जीवस्थानेषु पुनर्भङ्गानां प्रत्येकं पञ्चकं । तत्रापर्याप्तसंज्ञिनि १० भङ्गा इत्यम् →एक परभवायुर्वन्धकालात्पूर्वम्। द्वौ तिर्यगायुषो बन्धकाले। द्रौ बन्धानन्तरम्। एवं तिरश्चोऽपर्याप्तसंज्ञिनः पञ्च भन्नाः, एवं मनुष्यस्यापि पञ्च भङ्गा वक्तव्याः। सर्वसंख्यया दश, शेषा न संभवन्नि। अपर्याप्तो हि संज्ञी नियंग मनुष्यो वा, न देवनारको, न चापि स देवायुर्नरकायुर्वा अध्नाति । तथा ये प्राक् संक्षितिरश्ची नव भङ्गा उक्तास्त एवासंज्ञिपर्याप्तेऽपि नव भगा वक्तव्याः, यतोऽसंज्ञी पर्याप्नस्तिर्यगेव स्यान्न मनुष्यादिः ।

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220