Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सप्ततिकाप्रकरणम्
रिमे-२१।२४। विकलेन्द्रियासंज्ञिसंझ्यपर्याप्तानां प्रत्येकमिमे द्वे द्वे उदयस्थाने २१।२६। तथा प्रत्येक सप्तानामपर्याप्तानां पञ्च पञ्च सत्तास्थानानि, तद्यथा-९२।८८१८६।८०१७८। एतेषां च स्वरूपं प्रामिव द्रष्टव्यम् । तथा सूक्ष्मस्यपर्याप्तस्य पञ्च बन्धस्थानानि, तद्यथा--,२३।२५।२६।२९।३०। एतानि मनुष्यतिर्यप्रायोग्याण्येव द्रष्टव्यानि, तत्रैव सूक्ष्मपर्याप्तस्योत्पादसम्भवात् । उदयस्थानानि ४, तद्यथा→२१।२४ ।२५।२६। पञ्च सत्तास्थानानि, तद्यथा,९।८८८६।८०७८। केवलं पञ्चविंशत्युदये पविशत्युदये च प्रत्येक प्रत्यकं, य: साधारणपदेन सह भगस्तत्राप्रसप्ततिवर्जानि ४ सत्तास्थानानि वक्तव्यानि । शरीरपर्याप्त्या हि पर्याप्तस्नेजोवायुवर्ज: सर्वोऽपि मनुष्यगतिमनुष्यानुपूर्यो: नियमाद् बध्नाति । पञ्चविंशतिघड्विंशत्युदयौ च शरीरपर्याप्त्या पर्याप्तस्य भवतस्तत: साधारणस्य सूक्ष्मपर्याप्तस्य पञ्चविंशत्युदये षड्विंशत्युदये चाष्टसप्ततिन वाप्यते, प्रत्येकपदे पुनस्तेजोवायुकायिकावप्यन्तर्भवत: इति तदपेक्षया तत्राष्टसग्ततिलभ्यते। तथा प्रयाप्तबादरैकेन्द्रियस्य पञ्च बन्धस्थानानि, नद्यथा- २३।२५।२६।२९।३०। एतानि तिर्यग्मनुष्यप्रायोग्याणि । उदयस्थानानि ५, तद्यथा → २१।२४।२५।२६।२७। सत्तास्थानि ५, तद्यथा-→ ९२१८८।८६।८०१७८५ इह पञ्चविंशत्युदये षड्विंशत्युदये च प्रत्येकं प्रत्येकाऽया:कीर्तिभ्यामेकैको भगः । यौ च द्वौ भङ्गाबेकविंशतो ये च वैक्रियबादरवायुकायिकबर्जाश्चतुर्विंशती भगाश्चत्वारस्ते सर्वसंख्ययाऽष्टौ पञ्चसत्तास्थानकाः, शेषास्त्वेकविंशतिसंख्याश्चतु:सत्तास्थानकाः ।
तथा विकलेन्द्रियाणां त्रयाणां ५ बन्धस्थानानि, तद्यथा-> २३।२५।२६।२९।३०। एतान्यपि निर्यग्मनुष्यप्रायोग्याणि । षडुदयस्थानानि, तद्यथा→२१।२६।२८।२९।३०।३१। सत्तास्थानानि ५, नद्यथा→९२१८८।८६।८७७८। अत्र यावेकविंशत्युदये द्वौ भइगौ यौ च षडविंशत्युदये एते चत्वार:, पञ्च सत्तास्थानका यतोऽष्टसप्ततिस्तेजोवायुभवादुद्धृत्य पर्याप्तद्वीन्द्रियानधिकृत्य कियत्कालं प्राप्यते, शेषास्तु षोडश भङ्गाश्चतु:सत्तास्थानकास्नेष्वष्टसप्ततेरप्राप्यमाणत्वात्। तेजोवायुवर्जा हि शरीरेण पर्याप्ता नियमतो मनुष्यद्रिकं बध्नन्ति, ततोऽष्टाविंशत्याधुदयेष्वप्टसप्ततिर्न प्राप्यते। एवं त्रीन्द्रिय-चतुरिन्द्रियाणामपि पर्याप्तानां वक्तव्यम् । तथाऽसंज्ञिपञ्चेन्द्रियस्य पर्याप्तस्य षड् बन्धस्थानानि, तद्यथा→ २३।२५।२६।२८ ।२९।३०। असंज्ञिपञ्चेन्द्रिया हि पर्याप्ता नरकगति-देवगतिप्रायोग्यमपि बध्नन्ति, ततस्तेषामष्टाविंशतिरपि बन्धस्थानं लभ्यते। षड्दयस्थानि, तद्यथा... २११२५/२६:२८।२९।३०।३१। सत्तास्थानानि पञ्च, तद्यथा-→९२।८८१८६।८०९७८1 अकविंशतिसत्का अष्टौ भगा:, पविंशत्युदयसत्काश्चाष्टाशीत्यधिकशतद्वयसंख्या: पञ्च सत्तास्थानकाः । शेषा: सर्वेऽपि चतु:सत्तास्थानका, युक्तिरत्र प्रागुक्ता द्रष्टव्या।

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220