SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ सप्ततिकाप्रकरणम् रिमे-२१।२४। विकलेन्द्रियासंज्ञिसंझ्यपर्याप्तानां प्रत्येकमिमे द्वे द्वे उदयस्थाने २१।२६। तथा प्रत्येक सप्तानामपर्याप्तानां पञ्च पञ्च सत्तास्थानानि, तद्यथा-९२।८८१८६।८०१७८। एतेषां च स्वरूपं प्रामिव द्रष्टव्यम् । तथा सूक्ष्मस्यपर्याप्तस्य पञ्च बन्धस्थानानि, तद्यथा--,२३।२५।२६।२९।३०। एतानि मनुष्यतिर्यप्रायोग्याण्येव द्रष्टव्यानि, तत्रैव सूक्ष्मपर्याप्तस्योत्पादसम्भवात् । उदयस्थानानि ४, तद्यथा→२१।२४ ।२५।२६। पञ्च सत्तास्थानानि, तद्यथा,९।८८८६।८०७८। केवलं पञ्चविंशत्युदये पविशत्युदये च प्रत्येक प्रत्यकं, य: साधारणपदेन सह भगस्तत्राप्रसप्ततिवर्जानि ४ सत्तास्थानानि वक्तव्यानि । शरीरपर्याप्त्या हि पर्याप्तस्नेजोवायुवर्ज: सर्वोऽपि मनुष्यगतिमनुष्यानुपूर्यो: नियमाद् बध्नाति । पञ्चविंशतिघड्विंशत्युदयौ च शरीरपर्याप्त्या पर्याप्तस्य भवतस्तत: साधारणस्य सूक्ष्मपर्याप्तस्य पञ्चविंशत्युदये षड्विंशत्युदये चाष्टसप्ततिन वाप्यते, प्रत्येकपदे पुनस्तेजोवायुकायिकावप्यन्तर्भवत: इति तदपेक्षया तत्राष्टसग्ततिलभ्यते। तथा प्रयाप्तबादरैकेन्द्रियस्य पञ्च बन्धस्थानानि, नद्यथा- २३।२५।२६।२९।३०। एतानि तिर्यग्मनुष्यप्रायोग्याणि । उदयस्थानानि ५, तद्यथा → २१।२४।२५।२६।२७। सत्तास्थानि ५, तद्यथा-→ ९२१८८।८६।८०१७८५ इह पञ्चविंशत्युदये षड्विंशत्युदये च प्रत्येकं प्रत्येकाऽया:कीर्तिभ्यामेकैको भगः । यौ च द्वौ भङ्गाबेकविंशतो ये च वैक्रियबादरवायुकायिकबर्जाश्चतुर्विंशती भगाश्चत्वारस्ते सर्वसंख्ययाऽष्टौ पञ्चसत्तास्थानकाः, शेषास्त्वेकविंशतिसंख्याश्चतु:सत्तास्थानकाः । तथा विकलेन्द्रियाणां त्रयाणां ५ बन्धस्थानानि, तद्यथा-> २३।२५।२६।२९।३०। एतान्यपि निर्यग्मनुष्यप्रायोग्याणि । षडुदयस्थानानि, तद्यथा→२१।२६।२८।२९।३०।३१। सत्तास्थानानि ५, नद्यथा→९२१८८।८६।८७७८। अत्र यावेकविंशत्युदये द्वौ भइगौ यौ च षडविंशत्युदये एते चत्वार:, पञ्च सत्तास्थानका यतोऽष्टसप्ततिस्तेजोवायुभवादुद्धृत्य पर्याप्तद्वीन्द्रियानधिकृत्य कियत्कालं प्राप्यते, शेषास्तु षोडश भङ्गाश्चतु:सत्तास्थानकास्नेष्वष्टसप्ततेरप्राप्यमाणत्वात्। तेजोवायुवर्जा हि शरीरेण पर्याप्ता नियमतो मनुष्यद्रिकं बध्नन्ति, ततोऽष्टाविंशत्याधुदयेष्वप्टसप्ततिर्न प्राप्यते। एवं त्रीन्द्रिय-चतुरिन्द्रियाणामपि पर्याप्तानां वक्तव्यम् । तथाऽसंज्ञिपञ्चेन्द्रियस्य पर्याप्तस्य षड् बन्धस्थानानि, तद्यथा→ २३।२५।२६।२८ ।२९।३०। असंज्ञिपञ्चेन्द्रिया हि पर्याप्ता नरकगति-देवगतिप्रायोग्यमपि बध्नन्ति, ततस्तेषामष्टाविंशतिरपि बन्धस्थानं लभ्यते। षड्दयस्थानि, तद्यथा... २११२५/२६:२८।२९।३०।३१। सत्तास्थानानि पञ्च, तद्यथा-→९२।८८१८६।८०९७८1 अकविंशतिसत्का अष्टौ भगा:, पविंशत्युदयसत्काश्चाष्टाशीत्यधिकशतद्वयसंख्या: पञ्च सत्तास्थानकाः । शेषा: सर्वेऽपि चतु:सत्तास्थानका, युक्तिरत्र प्रागुक्ता द्रष्टव्या।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy