SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ गुणरत्नसूरिविरचित्त-अवचूर्युपेत नथा संज्ञिपञ्चेन्द्रियपर्याप्तस्य सर्वाणि बन्धस्थानानि, तानि चाप्टौ→ विंशतिचतुर्विंशनिनवाष्टरहितानि । सर्वाण्यप्युदयस्थानानि, तान्यप्यष्टौ, विंशतिनवाष्टोदया हि केवलिनः स्युः, चतुर्विंशत्युदयश्चैकेन्द्रियाणामत एते वास्तत्र केवली संज्ञित्वेन न विवक्षिन इनि तददयप्रतिषेधः । नवाष्टरहितानि सर्वाण्यपि सत्तास्थानानि, तानि च दश । अत्राप्येकविंशत्युदयभङ्गा अष्टौ, षड्विंशत्युदयभङ्गाश्चाष्टाशीत्यधि कशतद्- यसंख्या: पञ्चसत्तास्थानकाः, शेषाश्चतु:सत्तास्थानका: । अपर्याप्तसूक्ष्मैकेन्द्रियायादीनां सप्तानां बन्धादिप्र- कृतीनां संवेधः पूर्वोक्तानुसारेण स्वयमभ्यूह्यः ॥३७॥३८|| सम्प्रनि गुणस्थानान्यधिकृत्याह-- नाणंतराय तिविहमवि दससु दो होति दोसु ठाणेसुं। मिच्छासाणे विइए नव चउ पण नव य संतंसा ॥३९॥ नाणं० मिथ्यादृष्ट्यादिषु सूक्ष्मसम्परायपर्यन्तेषु दशसु गुणस्थानेषु ज्ञानावरणमन्तरायं च त्रिविधमपि स्यात, पञ्चविधो बन्धः पञ्चविध उदय: पञ्चविधा सत्ता इत्यर्थः । तथा द्वयोरुपशान्तमोह.. क्षीणमोहयोर्बन्धाभावे पञ्चोदयः पञ्च सत्ता, परत उदय-सत्तयोरप्यभावः। तथा द्वितीये-द्वितीयस्य दर्शनावरणीयस्य मिथ्यादृष्टौ सास्वादने च नव[विधो]बन्धश्चतुर्विधः पञ्चविधो वोदयो नव[विधा] सत्ता इति द्वौ भड्रगौ। द्वयोरप्यनयोर्गुणस्थानकयोः स्त्यानिित्रकस्य नियमतो बन्धात् ।।३९|| मिस्साइ नियट्टीओ छ च्चउ पण नव य संतकम्मंसा। चउबंध तिगे चउ पण नवंस दुसु जुयल छस्संता ॥४०॥ मिस्सा. मिश्रादिष्वप्रमत्तपर्यन्तेषु, निवृत्तौ च अपूर्वकरणे चापूर्वकरणाद्धाया: प्रथमे संख्येयतमे भागे चेत्यर्थः, परतो निद्राद्विकबन्धव्ययवच्छेदेन षड्विधबन्धासम्भवात्, नत एतेषु ६ बन्धः । ४।५ विधोबा उदयो ।९ सत्तेति द्रौ भगौ। नतोऽत ऊर्ध्वमपूर्वकरणेपि चतुर्विध एव बन्धस्ततस्त्रिकेऽपूर्वकरणानिवृत्तिवादरसूक्ष्मराम्परायरूपे ४ बन्धः, ४/५ वा उदयः, २ सत्तेति द्वौ भगौ। 'अंस' इनि सत्ताभिधीयते । एतच्चोक्तमुपशमश्रेणिमधिकृत्य । क्षपकश्रेण्यां गुणस्थानकत्रयेऽपि पञ्चविधोदयस्य सूक्ष्मसम्पराये च नबविधायाः सत्ताया: अप्राप्यमाणत्वात् । 'दुसु जुयल छस्संन त्ति इह क्षपकश्रेण्यामनिवृत्तिबादरसम्परायाद्धाया: संख्येयनमेषु भागेषु [गतेषु] सत्स्वेकस्मिन् भागे संख्येयतमेऽवतिष्ठमाने स्यानिित्रकस्य सत्ताव्यवच्छेद: स्यात्, ततस्तदनन्तरमनिवृत्तिबादरेऽपि षड्विधैव सत्ता स्यादतो द्वयोरनिवृत्तिबादरसूक्ष्मस.
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy