SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ सप्ततिकाप्रकरणम् म्पराययोयुगलमिति बन्धोदयाबुच्येते। चतुरिति चानुवर्तते, तन: ४ बन्धः, ४ उदयः, ४।६। सत्ता। अत्र पञ्चविध उदयो न प्राप्यते, शपकाणामत्यन्तविशुद्धत्वान्निद्राद्विकस्योदयाभावात् ॥४०॥ उत्रसंते चउ पण नव खीणे चउरुदय छच्च चउ संत। वेणियाउयगोए विभज्ज मोहं परं बुच्छं ॥४१।। उवः उपशान्तमोहे बन्धाभावे ४/५ वा उदय:, ९. सत्ता, उपशमकोपशान्नमोहा हि अत्यन्तविशुद्धा न स्युस्ततस्तेषु निद्राद्रिकस्याप्युदयः सम्भवति। क्षीणमोहे ४ उदयः, ६ सत्ताऽयं भङ्गो द्विचरमसमयं यावत्, चरमसमये तु निद्रा-प्रचलयोः सत्ताव्यवच्छेदादयं भग: ४ उदय, ४ सत्ता। तथा वेदनीय-गोत्रयोर्भङ्गनिरूपणार्थमिय मन्नर्भाष्यगाथा , 'चउ छस्सु दौणि सह श्मे का गुणातु वेवामानाए म उ दो तिसु एगऽहसु दोणि एक्कमि।'[ ] मिथ्यादृष्ट्यादिषु प्रमत्तान्नेषु षट्सु गुणस्थानेषु प्रथमाधत्वारो भङ्गाः। तथाऽप्रमत्तादिषु सयोग्यन्तेषु सप्तसु गुणस्थानेषु द्वौ भङ्गौ, तौ च तृतीय-चतुर्थों ज्ञातव्यौ, एते हि सातमेव बध्नन्ति नासातम्। तथैकस्मिन्नयोगिकेबलिनि चत्वारो भगास्तत्र पञ्चमषष्ठी द्विचरमसमयं यावत्प्राप्येते, चरमसमये त्वन्त्यौ द्रौ। तथा गोत्रस्य मिथ्यादृष्टादाद्या: पञ्च भङ्गाः, सास्वादनस्य प्रथमवर्जा: शेषा: ४, प्रथमो हि भड्गस्तेजोवायुकायिकेषु लभ्यते, तद्भवाद्वत्तेषु वा कियत्कालं, न च तेजोवायुषु सासादनभावो लभ्यते, नापि तद्भवादुद्धतेषु बा तत्कालम् । तथा त्रिषु मिश्राबिरतदेशविरतेषु चतुर्थ-पञ्चमरूपौ द्रौ भगी, मिश्रादयो नीचर्गोत्रं न बध्नन्ति। अन्ये त्याचार्या ब्रुवत्ते-देशविरतस्य पञ्चम एवैको भङ्गस्तथा प्रमनादिग्वष्टसु गुणस्थानेषु प्रत्येकमेकैको भगस्तत्र प्रमत्ताप्रमत्तनिवृत्त्यनिवृत्तिसूक्ष्मेषु केवल: पञ्चमो भास्तेषामुच्चैर्गोत्रस्यैव बन्धोदयसम्भवादुपशान्तमोहे क्षीणमोहे सपोगिकेबलिनि बन्धाभावात् प्रत्येकमयं भङ्गः- उच्चैोत्रस्योदय उच्चैर्गोवनीचैर्गोत्रे सती । नथैकस्मिन्नयोगिकेबलिनि च द्वौ भड्गौ, उच्चोदय उच्चनीचे सती, भङ्गोऽयं द्विचरमसमयं यावत्। उच्चोदय उच्चं सत्, भगोऽयं चरमसमये, नीचैगोत्रं हि द्विचरमसमये एव क्षीणमिति चरमसमये न सत् प्राप्यते। आयुर्भगनिरूपणार्थमि यमन्तर्भाष्यगाथा→ 'अडच्छाहिगवीसा सोलस वीसं च बार छ दोसु। दो चउसु नीसु एक्कं पिच्छाइसु आउगे भंगा' । [ ] मिथ्यादृष्टिगुणस्थाने २८ आयुषो भगा: । सास्वादनस्य २६ भङ्गा, यनस्तिर्यञ्चो १. शुद्धत्या निधाः - हे८ । २. नुलला सप्ततिकाभाष्य गाथा- १३ ।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy