________________
गुणरत्नसूरिविरचित- अवचूयुपेतं
मनुष्या वा सास्वादनभावे वर्त्तमाना नरकायुर्न बध्नन्ति ततः प्रत्येकं तिरवां मनुष्याणां च परभवायुर्बन्धकाले एकैको भङ्गो न प्राप्यते । सम्यग्मिथ्यादृष्टेः १६, सम्यग्मिथ्यादृष्टयो हि नायुर्बन्धमारभन्ते, तन आयुर्बन्धकाले नारकाणां यौ की नगी, ये विषां चला गा ये च मनुष्याणामपि चत्वारः, यौ च देवानां द्वौ, तानेतान् द्वादश वर्जयित्वा शेषाः १६ स्युः । अविरतसम्यग्दृष्टेः २० कथमिति चेदुच्यते- तिर्यग्मनुष्याणां प्रत्येकमायुर्बन्धकाले ये तिर्यग्नरकमनुष्यगतिविषयास्त्रयखयो भङ्गा, यश्च देव-नैरविकाणां प्रत्येकमायुर्वन्धकाले तिर्यग्गतिविषये एकैको भङ्गस्तेऽविरतसम्यग्दृष्टेन सम्भवन्ति, ततः शेषा विंशतिरेव स्यात् । देशविरते १२ भङगा, यतो देशविरतिस्तिर्यग्मनुष्याणामेव स्यात्ते च तिर्यग्मनुष्या देशविरता आयुर्बघ्नन्तो देवायुरेव बध्नन्ति, ततस्तिरश्वां मनुष्याणां च प्रत्येकं परभवायुर्बन्धकालात्पूर्वमेकैको भगः मनुष्यायुष उदयो मनुष्यायुषः सत्ता, तिर्यगायुष उदयस्तिर्यगायुषः सत्ता परभवायुर्बन्धकालेऽपि चैकैको भगः, देवायुषो बन्धो मनुष्यायुष उदयो देवमनुष्यायुषी सती, देवायुषो बन्धस्तिर्यगायुष उदयो देवतिर्यगायुषी सती। आयुर्बन्धोत्तरकालं च चत्वारो यतः केचित्तिर्यञ्च मनुष्याश्चतुर्णामेकमन्यतमदायुर्बध्वा देशविरतिं प्रतिपद्यन्ते, ततस्तदपेक्षया चत्वारः भङ्गाः प्राप्यन्ते, सर्वसंख्या १२१ तथा द्वयोः प्रमत्ताप्रमत्तयोः प्रत्येकं ६ भङ्गाः। तथा चतुर्ष्वपूर्वकरणानिवृत्तिसूक्ष्मोपशान्तमोहेषुपशमश्रेणिमधिकृत्य प्रत्येकं द्वौ भगौ तद्यथा मनुष्यायुष उदयो मनुष्यायुषः सत्ताऽयमायुर्बन्धकालात्पूर्वम्, अथवा मनुष्यायुष उदयो मनुष्यदेवायुषी सती, अयं भङ्गो बन्धोत्तरकालम्, एते त्यानं बध्नन्त्यतिविशुद्धत्वात, पूर्वबद्धे च देवायुष्युपशमश्रेणिं प्रतिपद्यन्ते, नान्यायुषि पूर्वबद्धायुष्कस्तु क्षपकश्रेणिं न प्रतिपद्यते, तत उपशमश्रेणिमधिकृत्येत्युक्तम् । क्षपकश्रेण्यां त्वेतेषामेकैक एव भङ्गस्तद्यथा मनुष्यायुष उदयो मनुष्यायुषः सत्ता । तथा त्रिषु क्षीणमोहसयोग्ययोगरूपेषु प्रत्येकमेकैको भङ्गस्तद्यथा मनुष्यायुष उदयो मनुष्यायुषः सत्ता | अतः परं मोहनीयं वक्ष्ये ॥ ४१ ॥
१५४
स्यात्, तद्यथा
गुणठाणगेसु असु एक्केक्कं मोहबंधठाणेसु । पंच अनियझिणे बंधोवरमो परं तत्तो ॥ ४२ ॥
→
→
गुण० मोहनीयसत्कबन्धस्थानेषु मध्ये एकैकं बन्धस्थानं मिथ्यादृष्टयादिष्वष्टसु गुणस्थानेषु मिथ्यादृष्टेः २२ सास्वादनस्य २१, सम्यग्मिथ्यादृष्टेरविरतसम्पदृष्टेच प्रत्येकं १७,
१ ० युषस्तु क्षपकश्रेणिं न प्रतिपद्यन्ते पा० ला |
-
-